________________
Jain Educato
जम्बूद्वीपवर्षधरादिभ्यो द्विगुणविस्तृताः । तुङ्गत्वेन तु तैस्तुल्याः सर्वे वर्षधराद्रयः ॥ २४ ॥ आयामतश्चतुर्लक्षयोजनप्रमिता अमी । पर्यन्तस्पृष्टकालोदलवणोदधिवारयः ॥ २५ तथाह्यत्र हिमवतोर्गियोंः शिखरिणोरपि । विष्कम्भोऽयं जिनैरुक्तः, पूर्वापरार्द्धभाविनोः ॥ २६ ॥ योजनानां शतान्येकविंशतिः पञ्च चोपरि । कलाः पश्चैवाथ महाहिमवतोश्च रुक्मिणोः ॥ २७ ॥ अष्टावेव सहस्राणि योजनानां चतुःशती । एकविंशत्यभ्यधिका, तथैवैककलाधिका ॥ २८ ॥ त्रयस्त्रिंशत्सहस्राणि योजनानां शतानि षट् । स्फुरच्चतुरशीती नि, कलाश्चतस्र एव च ॥ २९ ॥ विष्कम्भोऽयं निषधयोगियनलवतोरपि । द्वादशानामप्यमीषां व्याससंकलना वियम् ॥ ३० ॥ लक्षमेकं योजनानां षट्सप्ततिसहस्रयुक् । शतान्यष्टौ द्विचत्वारिंशता समधिकानि च ॥ ३१ ॥ द्वे योजनसहस्रे च, विष्कम्भ इषुकारयोः । तस्मिंश्च योजितेऽत्राद्विरुद्धं क्षेत्रमिदं भवेत् ॥ ३२ ॥ एकं लक्षं योजनानां सहस्राण्यष्टसप्ततिः । द्विचत्वारिंशदधिकान्यष्टौ शतानि चोपरि ॥ ३३ ॥
अथैतल्लवणाम्भोधिपरिधेरपनीयते । द्वादशाभ्यां शताभ्यां च तेन न्यूनः स भज्यते ॥ ३४ ॥ लब्धानि योजन सहस्राणि षट् षट् शतानि च । चतुर्दशाख्यानि भागाश्चैकोनत्रिंशकं शतम् ॥ ३५ ॥ द्वादशाख्यशतद्वन्द्रक्षुण्णैकयोजनोद्भवाः । तत्रेयत्पृथवस्तेऽंशा, द्विशती द्वादशाभवन् ॥ ३६ ॥ अथ चैतादृशैर शैर्यथाखमुपकहिपतेः । चतुर्दशानां क्षेत्राणां, लभ्यते मुखविस्तृतिः ॥ ३७ ॥ भागकल्पना चैवं - एकैकोऽंशो भरतयो २स्तथैरवतयोरपि २ । चत्वारो हैमवतयो ८ हैरण्यवतयोरपि ८ ॥ ३८ ॥ हरिवर्षाख्ययोरेवं १६, तथा रम्यकयोरपि
national
For Private & Personal - Use Only
१०
१४
ww.jainelibrary.org