SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २२ सर्गे ॥२६५॥ तद्द्वारपालानां विजयादिसुधाभुजाम् । परस्मिन् धातकीखण्डे, राजधान्यो निरूपिताः ॥ ९ ॥ दश लक्षा योजनानां सहस्राः सप्तविंशतिः । पञ्चत्रिंशा सप्तशती, मिथो द्वारामिहान्तरम् ॥ १० ॥ दक्षिणस्यामुदीच्यां च, द्वीपस्यैतस्य मध्यगौ । इषुकारौ नगवरी, जगदाते जगद्धितैः ॥ ११ ॥ योजनानां पञ्च शतान्युच्चौ सहस्रविस्तृतौ । चत्वारि योजनानां च लक्षाण्यायामतः पुनः ॥ १२ ॥ अत एव स्पृष्टवन्तौ, कालोदलवणोदधी । आभ्यां संगन्तुमन्योऽन्यं, भुजाविव प्रसारितौ ॥ १३ ॥ कूदैश्चतुर्भिः प्रत्येकं, शोभितौ रत्नभासुरैः । चैत्यमेकैकं च तन्त्र, कुटे कालोदपार्श्वगे ॥ १४ ॥ चतुर्भिः कुलकं ॥ आभ्यां द्वाभ्यामिषुकारपर्वताभ्यामयं द्विधा । द्वीपो निर्दिश्यते पूर्वपश्चिमार्द्धविभेदतः ॥ १५ ॥ यच जम्बूद्वीपमेरोः, प्राच्यां पूर्वार्द्धमस्य तत् । तस्य प्रतीच्याम यत्तत्पश्चिमार्द्धमुच्यते ॥ १६ ॥ द्वयोरप्यर्द्धयोर्मध्य, एकैको मन्दराचलः । तयोरपेक्षया क्षेत्र व्यवस्थाऽत्रापि पूर्ववत् ॥ १७ ॥ तथाहि - अपाच्यामिषुकारो य, इहत्य मेर्वपेक्षया । पूर्वतस्तस्य भरतक्षेत्रं प्रथमतो भवेत् ॥ १८॥ ततो हैमवतक्षेत्रं, हरिवर्षं ततः परम् । ततो महाविदेहाख्यं, रम्यकाख्यं ततः परम् ॥ १९ ॥ ततश्च हैरण्यवत मैरावतं ततस्ततः । औत्तराह इषुकार, एषा पूर्वार्द्धसंस्थितिः ॥२०॥ पश्चिमायामपि तस्मादाक्षिणात्येषुकारतः । प्रथमं भरतक्षेत्रं, ततो हैमवताभिधम् ॥ २१ ॥ एवं यावदौत्तराह, इषुकारधराधरः । पूर्वार्द्धवत्क्षेत्ररीतिरेवं पश्चिमतोऽपि हि ॥ २२ ॥ द्वयोरप्यर्द्धयोरेषां, क्षेत्राणां सीमकारिणोः । षट् षट् वर्षधराः प्राग्वत्, सर्वेऽपि द्वादशोदिताः ॥ २३ ॥ Jain Educationonal For Private & Personal Use Only धातकीखण्डे क्षेत्रव्य वस्था १५ २० २५ ॥२६५॥ २७ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy