________________
कापि प्राप्तप्रकर्षः पृथुमकरकराकृष्टपाठीनपीठनस्यन्नक्रप्रमोदोल्ललनचलजलोत्सितडिंडीरपिंडैः ॥ ८२ ॥ ( स्रग्धरा ) दशभिरादिकुलकं ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्ति सुखमेकविंशतितमः सो मनोज्ञोऽगमत् ॥ ८३ ॥ ग्रन्था ३३७॥
॥ इति श्रीलोकप्रकाशे एकविंशतितमः सर्गः समासः॥
॥ अथ द्वाविंशतितमः सर्गः प्रारभ्यते ॥ | अथामाल्लवणाम्भोधेरनन्तरमुपस्थितः । वर्ण्यते धातकीखण्डद्वीपो गुरुप्रसादतः ॥१॥ वृक्षेण धातकी-ISI नाम्ना, यदसौ शोभितः सदा । वक्ष्यमाणवरूपेण, ततोऽयं प्रथितस्तथा ॥२॥ चतुर्योजनलक्षात्मा, चक्रवालतयाऽस्य च । विस्तारो वर्णितः पूर्णज्ञानालोकितविष्टपैः ॥३॥ परिक्षेपः पुनरस्य, कुक्षिस्थद्वीपवारिधेः। त्रयोदशलक्षरूपः, क्षेत्रलब्धोऽयमीरितः॥४॥ लक्षाः किलैकचत्वारिंशत्सहस्राण्यथो दश । योजनानां नवशती, किञ्चिदूनकषष्टियुक्॥५॥अयं कालोदपार्श्वेऽस्य, परिधिश्चरमो भवेत् । आद्यस्तु लवणाम्भोधेरन्ते या कथितः पुरा ॥ ६॥ मध्यमः परिधिलक्षाण्यष्टाविंशतिरेव च । षट्चत्वारिंशत्सहस्राः, पञ्चाशद्योजना-16 चिकाः ॥७॥ जम्बूद्वीपवदेषोऽपि, द्वारैश्चतुर्भिरश्चितः । तेषां नामप्रमाणादि, सर्वं तबद्भवेदिह ॥ ८॥ किंत्वे-11
लो.प्र.४५
Jain Educatio
n
al
For Private & Personal Use Only
Cine.jainelibrary.org