________________
तेण परं जोइसिया अहलेसागा (मु ) णेयवा ॥ १ ॥ तंपि उद्गमालावभासणत्थमेव, लोगठिई एसत्ति” एवं चत्वारोऽत्र सूर्याश्चत्वारश्च सुधांशवः । नक्षत्राणां शतमेकं, प्रज्ञप्तं द्वादशोत्तरम् ॥ ६१ ॥ द्विपञ्चाशत्समधिकं, ग्रहाणां च शतत्रयम् । प्रमाणमथ ताराणां यथाऽऽन्नायं निरूप्यते ॥ ६२ ॥ द्वे लक्षे सप्तषष्टिश्च, सहस्राणि शतानि च । नवैव कोटाकोटीनां प्रोक्तानि तत्त्ववेदिभिः ॥ ६३ ॥ अत्रायमाम्नाय :- यत्र द्वीपे समुद्रे वा, प्रमाणं ज्ञातुमिष्यते । ग्रहनक्षत्रताराणां तत्रत्यचन्द्रसङ्ख्यया ॥ ६४ ॥ एकस्य शशिनो गुण्यो, वक्ष्यमाणः परिच्छदः । एवं ग्रहोताराणां मानं सर्वत्र लभ्यते ॥ ६५ ॥ एकशशिपरिवारश्चायम् - अष्टाशीतिग्रहा ऋक्षाण्यष्टाविंशतिरेव च । शराश्वाङ्करसरसा ( ६६९७५) स्ताराणां कोटिकोटयः ॥ ६६ ॥
लवणान्धौ च कालोदे, स्वयम्भूरमणेऽपि च । भूयस्यो मत्स्यमकरकूर्माद्या मत्स्यजातयः ॥ ६७ ॥ तत्रास्मिंलवणाम्भोधावुत्सेधाङ्गुलमानतः । योजनानां पञ्च शतान्युत्कृष्टमत्स्यभूघनम् ॥ ६८ ॥ शतानि सप्त कालोदे, सहस्रमंतिमेऽम्बुधौ । गुर्वङ्गमानं मत्स्यानामल्पमत्स्याः परेऽब्धयः ॥ ६९ ॥ स्युर्योनिप्रभवा जातिप्रधानाः कुलकोदयः । लवणे सप्त मत्स्यानां, नव कालोदवारिधौ ॥ ७० ॥ अर्द्धत्रयोदश तथा मत्स्यानां कुलकोटयः । स्वयम्भूरमणाम्भोधौ, प्रज्ञप्ताः परमेष्ठिभिः ॥ ७१ ॥ तथा च जीवाभिगमे-'लवणे णं भंते ! समुद्दे कइ मच्छजातिकुल कोडिजोणीपमुहसयसहस्सा पण्णत्ता १, गो० ! लवणे सत्त, कालोए नव, सयंभूरमणे अद्धतेरसत्ति' जम्बूद्वीपे प्रविशन्ति, मत्स्या लवणतोयधेः । नवयोजनप्रमाणा, जगतीविवराध्वना ॥ ७२ ॥ एवं च
Jain Educationational
For Private & Personal Use Only
१०
१४
w.jainelibrary.org