SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 90 न्योऽपि, खखदिक्षु मनोरमाः । स्युः सुस्थितपुरीतुल्याः, परमिंल्लवणार्णवे ॥ ३८ ॥ ये तु सन्त्यन्तरद्वीपाः, षट्पश्चाशदिहाम्बुधौ । निरूपितास्ते हिमवद्विरिप्रकरणे मया ॥ ३९॥ __एवमेकाशीतिरस्मिन्, द्वीपा लवणवारिधी । वेलन्धराचलाश्चाष्टौ, दृष्टा दृष्टागमाब्धिभिः॥४०॥ महापातालकलशाश्चत्वारो लघवश्च ते । सहस्राः सप्तचतुरशीतिश्चाष्टौ शतानि च ॥४१॥ रत्नद्वीपादयो येऽन्ये, श्रूयन्तेऽम्भोनिधाविह ।द्वीपास्ते प्रतिपत्तव्याः, प्राप्तरूपैर्यथागमम् ॥४२॥ सुधांशवोऽसिंश्चस्वारश्चत्वारोऽश्चि तोयधौ । संचरन्ति समश्रेण्या, जम्बूद्वीपेन्दुभानुभिः॥४३॥ यदा जम्बूद्वीपगतश्चारं चरति भानुमान् । एको मेरोदक्षिणस्यां, तदाऽस्मिन्नम्बुधावपि ॥ ४४ ॥ तेन जम्बूद्वीपगेन, समश्रेण्या व्यवस्थितौ । दक्षिणस्यामेव मेरोद्वौं चारं चरतो रवी ॥ ४५ ॥ एकस्तत्रार्वाक शिखायाः, समश्रेण्या सहामुना । शिखायाः परतोऽन्योऽब्धावुक्षेव युगयत्रितः॥४६॥ एवमुत्तरतो मेरोर्यो जम्बूद्वीपगो रविः । द्वौ पुनस्तत्समश्रेण्या, चरतोऽर्का-चिहाम्बुधौ ॥४७॥ तदा च चरतोर्जम्बूद्वीपे पीयूषरोचिषो। मेरोः प्राच्या प्रतीच्यां च, समश्रेण्याऽम्वुधावपि ॥४८॥ द्वौ द्वौ शशाङ्की चरतः, पूर्वपश्चिमयोर्दिशोः । अर्याक शिखाया एकैक, एकैकः परतोऽपि च ॥४९॥ एवं रवीन्दवो येऽग्रे, सन्ति मर्योत्तरावधि । जम्बूद्वीपपुष्पदन्तसमश्रेण्या चरन्ति ते ॥५०॥ यथोत्तरं यदधिकाधिकक्षेत्राक्रमेऽपि ते । पर्याप्नुवन्ति सह तदत्याधिक्यं यथोत्तरम् ॥५१॥ दृश्यते भ्रमतां श्रेण्या, मेढीमनु गवामिह । अर्वाचीनापेक्षयाऽन्यगत्याधिक्यं यथोत्तरम् ॥५२॥ एवं सर्वेऽनुवर्तन्ते, जम्बूद्वीपेन्दुभास्कराः। in Educati onal For Private Personel Use Only M ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy