SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २१ सर्गे ॥२६२॥ दशभिर्विजयोपमा ॥ २२ ॥ जम्बूद्वीपवेदिकान्तात्, प्रतीच्यामेव मेरुतः । योजनानां सहस्राणि, द्वादशातीत्य वारिधौ ॥ २३ ॥ स्युश्चत्वारो र विद्वीपा, द्वौ जम्बूद्वीपचारिणोः । भान्वोर्द्वा चार्वाक् शिखाया, लवणाम्बुधिचारिणोः ||२४|| मेरोः प्राच्यां दिशि जम्बूद्वीपस्य वेदिकान्ततः । स्युर्योजन सहस्राणां द्वादशानामनन्तरम् ॥ २५ ॥ चत्वारोऽत्र शशिद्वीपा, द्वौ जम्बूद्वीपचारिणोः । इन्द्रोद्वौ चार्वाक् शिखाया, लवणोदधिचारिणोः ॥ २६ ॥ तथैव धातकीखण्ड वेदिकान्तादतिक्रमे । स्युर्योजन सहस्राणां द्वादशानामिहाम्बुधौ ॥ २७ ॥ जम्बूद्वीपस्थायिमेरोः, प्रतीच्यां दिशि निश्चितम् । अष्टौ दिनकरद्वीपा, दीपा इव महारुचः ॥ २८ ॥ युग्मम् ॥ बहिः शिखायाश्वरतोर्दो द्वीपावर्कयोर्द्वयोः । षट् षण्णां धातकीखण्डार्वाचीनार्द्धप्रकाशिनाम् ॥ २९ ॥ तथैव धातकीखण्डवेदिकान्तादनन्तरम् । योजनानां सहस्रेषु गतेषु द्वादशखिह ॥ ३० ॥ प्राच्यां जम्बूद्वीपमेरोः, सन्त्यष्टौ लवणोदधौ । शशिद्वीपास्तत्र च द्वौ, शिखायाश्चरतोर्बहिः ॥ ३१ ॥ षडन्ये धातकीखण्डार्वाक्तनार्द्धप्रचारिणाम् । षण्णां हिमरुचामेवमेते सर्वेऽपि संख्यया ॥ ३२ ॥ स्युचतुर्विंशतिश्चन्द्रसूर्यद्वीपाः समेऽप्यमी । गौतमद्वीपसदृशा, मानतश्च स्वरूपतः ॥ ३३ ॥ जलोच्छ्रयावगाहादि, सर्वं ततोऽविशेषितम् । गौतमद्वीपवद्वाच्यं सर्वेषामपि सर्वथा ॥ ३४ ॥ किंतु तन्त्रास्ति भौमेयमेषु प्रासादशेखरः । वाच्यः प्रत्येकमेकैको, भौमेयसममानकः ॥ ३५ ॥ प्रतिप्रासादमेकैकं, सिंहासनमनुत्तरम् । तेषु चन्द्राश्च सूर्याश्च प्रभुत्वमुपभुञ्जते ॥ ३६ ॥ सुस्थितामरवत्सेव्याः सामानिकादिभिः सुरैः । वर्षलक्षसहस्राव्यपल्योपमायुषः क्रमात् ॥ ३७ ॥ एतेषां राजधा Jain Education national For Private & Personal Use Only भौमेयं रवि शशिद्वी पाश्च २० २५ ॥२६२॥ २८ Jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy