________________
लोकप्रकाशे २१ सर्गे
॥२६१॥
शाः, शतास्त्रयोऽष्ट चांशकाः । चतुःशती च पञ्चाशा, दशांशाश्च घरोण्डता ॥ ९३ ॥ एवं वेलन्धरावासपर्व - तानां यथामति । खरूपं दर्शितं किञ्चिज्जीवाभिगमवर्णितम् ॥ ९४ ॥
यदि
सुमेरुतः पश्चिमायां, जम्बूद्वीपान्त्यभूमितः । सहस्रान् द्वादशातीत्य, लवणाम्भोनिधाविह ॥ ९५ ॥ योजनानां सहस्राणि द्वादशायतविस्तृतः । शोभते गौतमद्वीपः स्थानं सुस्थितनाकिनः ॥ ९६ ॥ सप्तत्रिंशत्सह स्त्राणि, योजनानां शतानि च । नवाष्टचत्वारिंशानि द्वीपेऽस्मिन् परिधिर्भवेत् ॥ ९७ ॥ द्वे गव्यूते जलादूर्द्धमुच्छ्रितोऽधिशिखादिशि । अन्तेऽस्यास्मिन्नम्बुवृद्धिस्त्रैराशिकात्प्रतीयते ॥ ९८ ॥ तथाहि - सहस्रेषु द्वादशसु, द्वीपोऽयं तावदाततः । चतुर्विंशतिरित्येवं सहस्रा वारिधेर्गताः ॥ ९९ ॥ ततश्च सहस्रपञ्चनवतिपर्यन्ते लभ्यते । जलवृद्धिर्योजनानां शतानि सप्त निश्चिता ॥ २०० ॥ चतुर्विंशत्या सहस्रैः कियतीयं तदाप्यते । ( ९५०००-७०० - २४००० ) राशित्रयेऽन्त्याद्ययोश्च कार्यं शून्यापवर्त्तनम् (९५ - ७०० - २४ ) ॥ १ ॥ मध्यराशिः सप्तशती, गुणितोऽन्त्येन राशिना । चतुर्विंशतिरूपेण, सहस्राः षोडशाभवन् ॥ २ ॥ ततश्च पञ्चनवतिरूपेणान्त्येन राशिना । विभज्यते ततो लब्धं, षट्सप्तत्यधिकं शतम् ||३|| अशीतिः पञ्चनवतिभागाश्चैतावती किल । गौतमद्वीप पर्यन्ते, जलवृद्धिः शिखादिशि ॥ ४ ॥ जम्बूद्वीपदिश्यमुष्य, राशेरर्द्ध जलोच्छ्रयः । युक्तश्चैष सहस्राणां द्वादशानामतिक्रमे ॥ ५ ॥ ततः पूर्वोक्तस्य राशेरर्द्ध यदिदमास्थितम् । अष्टाशीतियजनानि चत्वारिंशत्तथा लवाः ॥ ६ ॥ इयान् जम्बूद्वीपदिशि द्वीपस्यास्योच्छ्रयो जलात् । शिखादिगुदितद्वीपोच्छ्रयः
Jain Educationa
tional
For Private & Personal Use Only
गौतमद्वीपः १५
२०
222
२५ ॥२६२॥
२७
Jainelibrary.org