________________
लोकप्रकाशे २१ सर्गे
॥२६०॥
Jain Education
वमित्येतद् द्विगुणीकुरु ॥ ६३ ॥ पञ्चाशीतिः सहस्राणि, द्वाविंशान्यभवन्निह । मध्यस्थजम्बूद्वीपस्य, लक्षमेकं तु | मील्यते ॥ ६४ ॥ एतेषां परिधिः पञ्च, लक्षा योजनसङ्ख्यया । पञ्चाशीतिः सहस्राणि तथैकनवतिः परा ॥ ६५ ॥ अष्टानामप्यथाद्रीणां, व्यासोऽस्मादपनीयते । षट्सप्तत्याढ्य शतयुक्सहस्राष्टक ( ८१७६ ) संमितः ॥ ६६ ॥ अपनीतेऽस्मिंश्च पूर्वराशिरीदृग्विधः स्थितः । पञ्च लक्षाः सहस्राणि षट्सप्ततिस्तथोपरि ॥ ६७ ॥ नव पञ्चद-शाख्यानि शतान्येषामथाष्टभिः । भागे हृते लभ्यते यत्तदद्रीणां मिथोऽन्तरम् ॥ ६८ ॥ एषां समीपेऽम्बुवृद्विर्जम्बूद्वीप दिशि स्फुटम् । समभूतलतुल्याम्भोऽपेक्षयोद्धुं पयोनिधौ ॥ ६९ ॥ नवोत्तरं योजनानां शतत्रयं तथोपरि । पञ्चचत्वारिंशदंशाः, पञ्चोनशतभाजिताः ॥ ७० ॥ निश्चयः पुनरेतस्य, त्रैराशिकात्प्रतीयते । व्युत्पित्सूनां प्रमोदाय, तदध्यातत्य दश्यते ॥ ७१ ॥ यदि पञ्चसहस्रोनलक्षेण वर्द्धते जलम् । योजनानां सप्तशती, तदा तद्वर्द्धते कियत् ॥ ७२ ॥ द्विचत्वारिंशत्सहस्त्रैरिति राशित्रयं लिखेत् । (९५०००-७००-४२०००) आद्यन्तयोस्तत्र राइयोः, कार्य शून्यापवर्त्तनम् ॥ ७३ ॥ एतयोर्हि द्वयो राश्योः, साजात्यादपवर्त्तनम् । घटते लाघवार्थं च, क्रियते गणकैरिदम् ॥ ७४ ॥ मध्यराशिः सप्तशती, द्विचत्वारिंशदात्मना । अन्त्येन राशिना गुण्यस्तथा चैवंविधो भवेत् ॥ ७५ ॥ नूनं सहस्राण्ये कोनत्रिंशत्पूर्णा चतुःशती । ततः पञ्चनवत्याऽयं, भाज्य: | प्रथमराशिना ॥ ७६ ॥ भागे हृते च यल्लब्धं, पानीयं तावदुच्छ्रितम् । जम्बूद्वीपदिश्यमीषां समीपे तत्पुरोदितम् ॥ ७७ ॥ जम्बूद्वीपस्य दिइयेषां गिरीणामन्तिके पुनः । गोतीर्थेन धरोधः स्यात्समोवव्यपेक्षपा
ational
For Private & Personal Use Only
वेलन्धरा
द्रयः
२०
२५
॥ २६० ॥
२८
Mainelibrary.org