________________
म्भते ॥७॥ मध्यमे च तृतीयांशे, वायुरिच तिष्ठतः। तृतीयेच तृतीयांशे, वर्तते केवलं जलम् ॥७॥ अन्येऽपि लघुपातालकलशा लवणाम्बुधौ । सन्ति तेषामन्तरेषु, क्षुद्रालिञ्जरसंस्थिताः॥७७॥ तथोक्तं जीवाभिगमवृत्ती-“तेषां पातालकलशानामन्तरेषु तत्र तत्र देशे या(तावत्)वत् क्षुद्रालञ्जरसंस्थानाः क्षुल्ला: पातालक- लशाः प्रज्ञप्ता" इति, अत्रायं संप्रदाय:-जम्बूद्वीपवेदिकान्तादतीत्य लवणाम्बुधी । सहस्रान् पश्चनवर्ति, तत्रायं परिधिः किल ॥ ७८॥ सल्लक्षद्वयनवतिसहस्रविस्तृतेर्भवेत् । नव लक्षाः सप्तदश, सहस्राणि च षट्शती ॥ ७९ ॥ अयं भावः-पश्चनवतिः सहस्राः समुद्रसंबन्धिन एकपाचे, तावन्त एव द्वितीयपाचे, मध्ये चैकं लक्षं जम्बूद्वीपसंबन्धि, एवं द्विलक्षनवतिसहस्रविष्कम्भक्षेत्रस्य परिधिर्नव लक्षाः सप्तदश सहस्राः षट्शतीत्येवंरूपो भवतीति ॥ चत्वारिंशत्सहस्रात्मा, शोध्यते भुखविस्तृतिः । महापातालकुम्भानामस्माद्राशेस्ततः स्थितम् ॥ ८०॥ अष्टौ लक्षाः षष्ट्यधिका:, सहस्राः सप्तसप्ततिः । भागे चतुर्भिरेतेषां, लब्धं तत्रान्तरं भवेत् ॥ ८१ ॥ लक्षद्वयं सहस्राणामेकोनविंशतिस्तथा । सपञ्चषष्टिद्विशती, कुम्भानां महतां पृथक् ॥ ८२॥ चतुर्वप्यन्तरेष्वेषु, पङयो नव नव स्थिताः । लघुपातालकुम्भानामाद्यपङ्की च ते स्मृताः ॥ ८३ ॥ प्रत्येक द्वे शते पञ्चदशोत्तरे किलान्तरम् । पूर्वोक्तं गुरुकुम्भानामेवमेभिश्च पूर्यते ॥ ८४॥ एकैकस्योदरव्यासः, सहस्रयोजनात्मकः । ततः शतद्वयं पञ्चदशसहस्रताडितम् ॥ ८५ ॥ सहस्रः पञ्चदशभिर्युक्तं लक्षद्वयं भवेत्।। लघुकुम्भरियदुद्धमेकैकस्यान्तरस्य वै ॥८६॥ शेषं सहस्राश्चत्वारो, द्विशती पञ्चषष्टियुक । रुद्रं कथंचित्त-15
Jain Educa
t ional
For Private Personel Use Only
Yaldw.jainelibrary.org