SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २१ सर्गे ॥२५६॥ Jain Education दश मूले मुखेऽपि च । विस्तीर्णा मध्यभागे च, लक्षयोजन संमिताः ॥ ६६ ॥ एकप्रादेशिक्या श्रेण्या मूलाद्विवर्द्धमानाः स्युः । मध्यावधि वक्रावधि ततस्तथा हीयमानाश्च ॥ ६७ ॥ ( आर्या ) इति प्रवचनसारोद्धारवृत्तौ, परमेतत्तदोपपद्यते यद्येषां मध्यदेशे दश योजनसहस्राणि यावत् लक्षयोजन विष्कम्भता स्याद्, यतः प्रदेश वृद्ध्या ऊर्द्ध पंचचत्वारिंशद्योजन सहस्रातिक्रम एव उभयतो मूलविष्कम्भाधिकायां पञ्चचत्वारिंशत्सहस्ररूपाय विष्कम्भवृद्धौ सत्यां यथोक्तलक्षयोजनरूपो विष्कम्भः संपद्यते, एवं हानिरपि सा त्वेषां मध्ये दश योजन सहस्राणि यावलक्षयोजनविष्कम्भता काप्युक्ता न दृश्यते, तदत्र तत्त्वं बहुश्रुता विदन्ति । योजनानां लक्षमेकमवगाढा भुवोऽन्तरे । रत्नप्रभा मूलभागं द्रष्टुमुत्कण्ठिता इव ॥ ६८ ॥ लक्षवयं योजनानां सहस्राः सप्तविंशतिः । सप्तत्याढ्यं शतमेकं त्रयः कोशास्तथोपरि ।। ६९ ।। एतत्पातालकलशमुखानामन्तरं मिथः । एतन्मूल विभागानामप्येतावदिहान्तरम् ॥ ७० ॥ उपपत्तिश्चात्र - एषां चतुर्णां वदनविस्तारपरिवर्जिते । पयोधिमध्यपरिधौ, चतुर्भक्ते मुखान्तरम् ॥ ७१ ॥ तथाऽन्धिमध्यपरिघेरेतेषां मध्यविस्तृतौ । शोधितायां चतुर्भक्ते, शेषे स्याज्जठरान्तरम् ॥ ७२ ॥ योजनानां लक्षमेकं, सप्तत्रिंशत्सहस्रयुक् । सप्तत्याढ्यं शतं क्रोशात्रयस्तदिदमीरितम् ॥ ७३ ॥ कल्प्यन्तेऽशास्त्रयोऽमीषां स चैकैकः प्रमाणतः । त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशं शतत्रयम् ॥ ७४ ॥ योजनानां योजनस्य, तृतीयांशेन संयुतम् । अधस्तने तृतीयांशे, तत्र वायुर्विज १ प्रदेशोऽत्र विवक्षितो भागः, एकस्मिन् प्रदेशे जलावगाहाभावात्, तद्वृद्धौ च समप्रमाणाविरोधात्, प्रत्यंशमेव वृद्धिरत्रेत्यर्थकमेतत् । For Private & Personal Use Only लवणे वेला १५ २० ॥२५६॥ २५ २६ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy