SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ धिष्ठायकाः सुराः । ज्ञेयाः प्रागुक्तविजयसदृक्षाः सकलात्मना ॥५४॥ एतेषां राजधान्योऽपि, स्मृताः सर्वास्मना समाः। राजधान्या विजयया, प्राक्प्रपञ्चितरूपया ॥५५॥ एताः किंतु खखदिशि, क्षारोदकभयादिव। असङ्ख्यद्वीपपाथोधीनतीत्य परतः स्थिताः॥५६॥ नान्नैव लवणाम्भोधी, रुचिरेक्षुरसोदके । योजनानां सह-18 स्राणि, वगाह्य द्वादश स्थिताः॥ ५७॥ सहस्राः पश्चनवतिस्तिस्रो लक्षाः शतद्वयम् । अशीतियुक् योजनानां, क्रोशो द्वारामिहान्तरम् ॥५८॥ द्वाराणां परिमाणं च, निःशेषरचनाश्चितम् । जम्बूद्वीपद्वारगतमनुसंधीयतामिह ॥ ५९॥ अथास्मिन्नम्बुधौ वेला, वर्द्धते हीयते च यत् । तत्रादिकारणीभूतान् , पातालकलशान् ब्रुवे ॥६०॥ सहसान् पश्चनवति, वगाह्य लवणाम्बुधौ । योजनानां स एकैको, मेरोर्दिक्षु चतसृषु ॥ ६१ ॥ एवं च-पातालकुम्भाश्चत्वारो, महालिञ्जरसंस्थिताः । वैरं स्मृत्वाऽब्धिना ग्रस्ता, अगस्त्यस्येव पूर्वजाः॥ २॥ वडवामुखनामा प्रागपाकेयूपसंज्ञितः। प्रतीच्यां यूपनामायमुदीच्यामीश्वराभिधः॥६३॥ दाक्षिणात्यकलशस्य बृहत्क्षेत्रसमासवृत्तौ केयूप इति नाम, प्रवचनसारोद्धारवृत्ती केयूर इति, समवायांगवृत्तौ स्थानांगवृत्तौ च केतुक इति॥ कालो महाकालनामा, वेलम्बश्च प्रभञ्जनः। क्रमादधीश्वरा एषां, पल्यायुषो महर्द्धिकाः॥ ६४॥ समन्ततो वज्रमयात्मनामेषां निरूपिताः । बाहल्यतष्ठिकरिकाः, सहस्रयोजनोन्मिताः॥६५॥ योजनानां सहस्राणि, १ केऊए इति देश्यशब्देन त्रयाणामध्यवगमनस्य नासंभवः। Jain Educ x emtional For Private & Personel Use Only www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy