SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे प्रतरेणाहतं धनम् ॥४१॥ कोव्यः षोडश कोटीनां, लक्षास्त्रिनवतिस्तथा । एकोनचत्वारिंशच्च, सहस्राणि पत्वारिशच, सहस्राणिलवणे प्रतरं २१ सर्गे ततः परम् ॥ ४२ ॥ सपञ्चदशकोटीनि, नव कोटीशतान्यथ । परिपूर्णा योजनानां, लक्षाः पश्चाशदेव च ॥४३॥ द्वाराणि एतावद घनगणितं, कथितं लवणार्णवे। विलसत्केवलालोकविलोकितजगत्रयः ॥४४॥ नन्वेतावद घनमिह, ॥२५५॥ कथमुत्पद्यते ? यतः। न सर्वत्र सप्तदश, सहस्राणि जलोच्छ्रयः ॥४५॥ किंतु मध्यभाग एव, सहस्रदशकाशवधि । अत्रोच्यते सत्यमेतत्तत्त्वमाकर्ण्यतां परम् ॥४६॥ युग्मम् ॥ अब्धेः शिखाया उपरि, द्वयोश्च वेदिकान्तयोः। दत्तायां वरिकायामृज्व्यामेकान्ततः किल ॥४७॥ अन्तराले यदाकाशं, स्थितमम्बुधिवर्जितम् । तत्सर्वमेतदाभाव्यमित्यम्बुधितयाऽखिलम् ॥४८॥ विवक्षित्वा मानमेतन्निरूपितं घनात्मकम् । एतद्विवक्षाहेतुस्तु, गम्यः केवलशालिनाम् ॥ ४९॥ तथाहष्षमाध्वान्तनिर्मनागमदीपकाः । विशेषणवतीग्रन्थे, जिनभद्रगणीश्वराः॥५०॥"एयं उभयवेइयंताओ सोलससहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभवं जलसुनपि खित्तं तस्स गणियं, जहा मंदरस्स पचयस्स एक्कारसभागहाणी कण्णगइए आगासस्सवि तदाभवंति-IS काऊण भणिया तहा लवणसमुदस्सवि" २५ . मुखैश्चतुर्मुख इव, द्वारैश्चतुर्भिरेष च । जगत्याऽऽलिङ्गितो भाति, स्थितैर्दिक्षु चतसृषु ॥ ५१ ॥ पूर्वस्यां | ॥२५५॥ विजयद्वारं, शीतोदायाः किलोपरि । धातकीखण्डपूर्वार्धाद्विशंत्या लवणाम्बुधौ ॥५२॥ द्वाराणि वैजयन्तादीन्यप्येवं दक्षिणादिषु । सन्त्यस्य दिक्षु तिमूषु, जम्बूद्वीप इव क्रमात् ॥५३॥ विजयाद्याश्च चत्वारो, द्वारा a tional For Private Personal Use Only X in Educ w .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy