________________
माकाशं तदपि कर्णगत्या तदाभाव्यमिति सजलं विवक्षित्वा विवक्षितमुच्यमानमुच्चत्वपरिमाणमवसेयं, यथा मन्दरपर्वतस्यैकादशभागपरिहाणि"रिति । वस्तुतः पुनरुभयोपयोर्वेदिकान्ततः । प्रदेशवृद्ध्योभयतो, तेऽम्बु क्रमात्तथा ॥ २८॥ यथाऽस्मिन् पश्चनवतिसहस्रान्ते भवेजलम् । योजनानां सप्त शतान्युच्छ्रितं स भूतलात् ॥ २९॥ योजनानां सहस्रं चोद्वेधोऽत्र समभूतलात् । एवं सप्तदश शतान्युद्वेधोऽत्र पयोनिधेः ॥३०॥ ततः परे मध्यभागे, सहस्रदशकातते । जलोच्छयो योजनानां, स्यात्सहस्राणि षोडश ॥ ३१ ॥ सहस्रमत्रा-11 प्युद्वेध, उच्छ्रयोद्वेधतस्ततः। योजनानां सप्तदश, सहस्राण्युदकोचयः ॥ ३२॥ एवं जघन्योच्छ्रयोऽस्याङ्गुला-II सङ्ख्यांशसंमितः । उत्कर्षतो योजनानां, सहस्राणि च षोडश ॥ ३३ ॥ मध्यमस्तूच्छ्रयो वाच्यो, यथोक्तानायतोऽम्बुधेः । तत्र तत्र विनिश्चित्य, जलोच्छ्रयमनेकधा ॥ ३४॥ ___ अथास्य लवणाम्भोधेगणितं प्रतरात्मकम् । घनात्मकं च निर्णेतुं, यथाऽऽगममुपक्रमे ॥ ३५ ॥ लवणाम्बु-18 धिविस्तारात्सहस्राणि दश स्फुटम् । शोधयित्वा शेषमीकृतं दशसहस्रयुक् ॥ ३६॥ जातं पञ्चसहस्राढ्यं, लक्षमेकमिदं पुनः । अस्मिन् प्रकरणे कोरिरित्येवं परिभाषितम् ॥ ३७॥ अथैवंरूपया कोव्या, गणयेल्लवणाम्बुधे। मध्यमं परिधर्मानं, स्यादेवं प्रतरात्मकम् ॥ ३८॥ तच्चेदं-सहस्रा नव कोटीनां, तथा नव शतान्यपि । एकषष्टिः कोटयश्च, लक्षाः सप्तदशोपरि ॥३९॥ सहस्राणि पश्चदश, योजनानामिदं जिनः। प्रतरं लवणे प्रोक्तं, सर्वक्षेत्रे फलात्मकम् ॥४०॥ मध्यभागे सप्तदश, सहस्राणि यदीरितम् । जलमानं तदनेन, १४
For Private Personal Use Only
N
Jain Education International
w.jainelibrary.org