________________
२१ सर्गे ॥२५४॥
लवणा वृताहः
योजनानां शतं हसेत् ॥ १४ ॥ एवं च पञ्चनव तिसहस्रान्ते समक्षितेः । निम्नतोभयतोऽप्यत्र, जाता सहस्रयोजना ॥१५॥ तथाहु:-"जस्थिच्छसि उच्वेहं ओगाहित्ताण लवणसलिलस्स । पंचाणउइविभत्ते जं लद्धं सो उउच्वेहो॥१६॥" ततश्च-द्वयोगोतीर्थयोर्मध्ये, सहस्रयोजनोन्मितः। स्यादुद्वेधः सहस्राणि, दश यावत्समोऽभितः॥१७॥ जम्बूद्वीपवेदिकान्तेऽङ्गुलासङ्ख्यांशसंमितम् । सलिलं धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥१८॥ ततः पञ्चनवत्यांशैवर्द्धन्ते षोडशांशकाः। अङ्गलैः पश्चनवत्या, व ते षोडशाङ्गुली॥१९॥ अत्रायमानाय:-धातकीखण्डतो जम्बूद्वीपतो वा पयोनिधी । जिज्ञास्यते जलोच्छायो, यावत्खंशाङ्गलादिषु ॥ २०॥ पञ्चोनशतभक्तेषु, सत्सु तेषु यदाप्यते । तत् षोडशगुणं यावत्तावांस्तत्र जलोच्छ्रयः॥ २१॥ यथाऽन्न पञ्चनवर्योजनानामतिक्रमे । विभज्यन्ते योजनानि, पञ्चोनेन शतेन वै॥ २२॥ एक योजनमाप्तं यत्तत्षोडशभिराहतम् । योजनानि षोडशैवं, ज्ञातस्तत्र जलोच्छ्रयः॥२३॥ तथाहः क्षमाश्रमणमिश्रा:-"जत्थिच्छसि उस्सेहं ओगाहित्ताण लवणसलिलस्स । पंचाणउइविभत्ते सोलसगणिए गणियमाहू ॥ २४ ॥” एतच्च धातकीखण्डजम्बूद्वीपान्त्यभूमितः। दत्त्वा दवरिकां मध्ये, शिखोपरितलस्य वै ॥२५॥ अपान्तराले च किमप्याकाशं यत् जलोज्झितम् । तत् सर्व कर्णगत्यैतत्संबन्धीति जलै तम् ॥ २६॥ विवक्षित्वा मानमुक्तं, जलोच्छ्र-यस्य निश्चितम् । मेरोरेकादशभागपरिहाणिरिवागमे ॥ २७॥ तथाहुः श्रीमलयगिरिपादाः-"इह षोडशसहस्रप्रमाणायाः शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहित
२५
॥२५४॥ २७
Jain Educatio
n al
For Private Personel Use Only
M
ainelibrary.org