________________
उत्पद्यन्ते प्राच्यभवाऽनुष्ठिताज्ञानकष्टतः ॥ ५७ ॥ मृताः पाशविषाहारजलाग्निक्षुत्तृडादिभिः । भृगुपातादिभिश्च स्युर्व्यन्तराः शुभभावतः ॥ ५८ ॥ स्थितिरुत्कर्षतोऽमीषां, पल्यमर्द्ध च योषिताम् । सहस्राणि दशादानामुभयेषां जघन्यतः ॥ ५९ ॥ स्वाभाविकं सप्तहस्तमानमुत्कर्षतो वपुः । अङ्गुलासंख्यांशमानं, जघन्यं प्रथमक्षणे ॥ ६० ॥ लक्षयोजनमानं चोत्कृष्टमुत्तरवैक्रियम् । प्रक्रमेऽङ्गुलसंख्येयभागमानं जघन्यतः ॥ ६१ ॥ एषां लेश्याश्चतस्रः स्युः, पद्मां शुक्लां विना पराः । उच्छसन्ति सप्तभिस्ते, स्तोकैर्जघन्यजीविनः ॥ ६२ ॥ वुभुक्षवश्चैकदिनान्तरेऽथोत्कृष्टजीविनः । समुच्छ्रसन्त्याहरन्ति मुहूर्त्ताहः पृथक्त्वकैः ॥ ६३ ॥ आहारे चित्तसंकल्पोपस्थिताः सारपुद्गलाः । सर्वाङ्गेषु परिणमन्त्येषां कावलिकस्तु न ॥ ६४ ॥ ये तु हिंस्राः सुरा वीरचण्डि - काकालिकादयः । मद्यमांसायाहुतिभिस्तुष्यन्ति तर्पिता इव ॥ ६५ ॥ तेऽपि पूर्वभवाभ्यासात्पापा मिथ्यात्वमोहिताः । मद्यमांसादि वीक्ष्यैव, तुष्यन्ति न तु भुञ्जते ॥ ६६ ॥ युग्मम् । संमूर्छिमा गर्भजाश्च तिर्यञ्चो गर्भजा नराः । उत्पद्यन्ते षड्रिप, युताः संहननैरिह ॥ ६७ ॥ च्युत्वोत्पद्यन्त एते नृतिरश्चोर्गर्भजन्मनोः । पर्याप्तबा| दरक्ष्माम्भः प्रत्येक भूरुहेषु च ॥ ६८ ॥ एकेन समयेनैकादयोऽसंख्यावसानकाः । उत्पद्यन्ते च्यवन्तेऽमी, उत्कृठमेषु चान्तरम् ॥ ६९ ॥ ज्ञेयं मुहूर्त्तानि चतुर्विंशतिस्तज्जघन्यतः । एकसामयिकं नूनं, च्यवनोत्पत्तिगोचरम् ॥ ७० ॥ पश्यन्त्यवधिना पञ्चविंशतियोजनान्यमी । जघन्यजीविनोऽन्ये च संख्येययोजनावधि ॥ ७१ ॥ तिर्यग्लोकवासिनोऽपि, व्यन्तरा यदिहोदिताः । तद्वै रत्नप्रभापृथ्वीवक्तव्यताप्रसङ्गतः ॥ ७२ ॥ इति व्यन्तराणां
Jain Educatenational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org