SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे क्षेत्र सर्गः १२ ॥१४९॥ Jain Education निकायस्य तावीश्वरमहेश्वरौ ॥ ५२ ॥ सुवत्सश्च विशालश्च, निकाये पञ्चमेऽधिपौ । षष्ठे निकाये नेतारौ, हास्य हास्यरती इति ॥ ५३ ॥ श्रेयोमहाश्रेयांसौ च निकाये सप्तमेऽधिपौ । पदगः पद्गपतिर्निकायस्याष्टमस्य तौ ॥ ५४ ॥ तथाहुः स्थानांगे - 'दो अणपनिंदा पन्नत्ता' इत्यादि । एतेऽपि रत्नकांडस्य, शतं शतमुपर्यधः । परित्यज्य वसन्त्यष्टशतयोजनमध्यतः ॥ ५५ ॥ तथाहुः प्रज्ञापनायां - "कहि णं भंते ! वाणमंतराणं देवाणं भोमेज्जा नगरा पण्णत्ता?, कहि णं भंते ! वाणमंतरा देवा परिवसंति, गोयमा ! से रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोअणसहस्सबाहलस्स उवरिं एवं जोअणसयं उगाहेत्ता हेट्ठावि एवं जोअणसयं वज्जेत्ता मज्झे अट्ठसु जोअणसएस एत्थ णं वाणमंतराणं तिरियमसंखेज्जा भोमेजा नगरावाससयसहस्सा भवतीतिमक्खाया, ते णं" इत्यादि । " तत्थ णं बहवे वाणमंतरा देवा परिवसंति, तंजहा -पिसाया भूया जक्खा यावत् अणपन्निय पणपन्निय इत्यादि." संग्रहण्यां तु "इय पढमजोअणसए रयणाए अट्ठ वंतरा अवरे । तेसिं इह सोलसिंदा | रुअगअहो दाहिणुत्तरओ ॥ १ ॥" योगशास्त्रचतुर्थप्रकाशवृत्तौ त्वेवं- "रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नियपणपन्नियप्रभृतय" इति । एषां वक्तव्यता सर्वा, विज्ञेया प्राक्तनेन्द्रवत्। जाता द्वात्रिंशदित्येवं, व्यन्तरामर नायकाः॥५६॥ भौमेयनगरेष्वेषु, व्यन्तराः प्रायशः खलु । १ रत्नप्रभाया उपरितनं शतं योजनानां विहाय नान्यत् स्थानं, भेदद्वयेऽपि पृथगिन्द्रभणनात् स्थानपार्थक्यं, प्रज्ञापनादौ तु सामान्येन निर्देशः, चतुर्निकायतया निर्धारंणात्, अन्यथा पञ्चमनिकायभावात् । itional For Private & Personal Use Only वानम न्तराः २० २५ २६ ॥ १४१ ॥ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy