________________
SEle
Rece
सृष्वपि । देवदेवीनामथात्र, स्थितिः क्रमान्निरूप्यते ॥ ३८ ॥ पूर्ण पल्योपमस्याई, तद्देशोनं तथाधिकम् । पल्योपमस्य तुर्योऽशो, देवानां क्रमतः स्थितिः॥ ३९॥ साधिकः पल्यतुर्याशः, पूर्णः स एव च स्थितिः। स एव देशेन न्यूनो, देवीनां क्रमतः स्मृता॥४०॥ एवं च-सामानिकानामेतेषां, तथाऽग्रयोषितामपि । पर्षदस्तिस्र ईषा त्रुटिता दृढरथाभिधा ॥४१॥ चतुर्भिरेवं सर्वेऽमी, सामानिकसहस्रकैः। प्रेयसीभिश्चतसृभिः, स्वपरिच्छदचारुभिः॥ ४२ ॥ पार्षदेस्त्रिविधैर्देवैः, सप्तभिः सैन्यनायकैः। गन्धर्वनटहस्त्यश्वरथपादात्यकामरैः ॥ ४३ ॥ अमीभिः सप्तभिः सैन्यैश्चतुर्भिश्चात्मरक्षिणाम् । स्थितैः प्रत्याशं सहस्रैरन्वहं सेवितायः॥४४॥ स्वस्वभौमेयनगरलक्षाणां चक्रवर्त्तिताम् । असंख्येयानामजस्रं, प्रत्येकं बिभ्रतोद्भुताम् ॥४५॥ व्यन्तराणां व्यन्तरीणां, स्वस्वनिकायजन्मनाम् । स्वस्वदिग्वतिनां स्वैरं, साम्राज्यमुपभुञ्जते ॥ ४६॥ पञ्चभिः कुलकं । शदिव्यस्त्रीसंप्रयुक्तेषु, नाट्येषु व्यापतेन्द्रियाः। न जानते गतमपि, कालं पल्योपमायुषः॥४७॥ तथोक्तं-"तहिं
देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचं सुहियपमुइया गयंपि कालं न याति ॥१॥” व्यन्तराणाममी अष्टौ, मूलभेदाः प्रकीर्तिताः। अष्टाऽवान्तरभेदाः स्युक्रणपर्णीमुखाः परे॥४८॥ तथाहि-अणपनी पणपन्नी इसिवाई भूयवाइए चेव । कंदी य महाकंदी कोहंडे चेव पयए य॥४९॥ प्राग्वत्प्रतिनिकायेऽत्र, द्वौ द्वाविन्द्रावुदीरितौ । क्षेत्रयो रुचकाद्याम्योत्तराहयोरधीश्वरौ ॥५०॥ इन्द्रो सन्निहितः सामानिकश्चाद्यनिकाययोः । धाता विधातेत्यधिपो, निकाये च द्वितीयके ॥५१॥ तायीकनिकायेन्द्रौ, ऋषिश्च ऋषिपालितः। चतुर्थस्य
Jain Education International
For Private & Personel Use Only
Onew.jainelibrary.org