________________
लोकप्रकाशे २० सर्गे
॥२४८॥
Jain Educatio
यानि चेन्दुना । स्युस्तानि सार्द्धक्षेत्राणि, वक्ष्यन्तेऽग्रेऽभिधानतः ॥ ८३ ॥ तत्र पञ्चदशाद्यानि, षङ्कं षङ्कं परयम् । अहोरात्रः सप्तषष्टिभागीकृतोऽत्र कल्प्यते ॥ ८४ ॥ ततः समक्षेत्रभानि, प्रत्येकं सप्तषष्टिधा । कल्प्यानीति पञ्चदश, सप्तषष्टिगुणीकृताः ॥ ८५ ॥ जातं सहस्रं पञ्चायमर्द्धक्षेत्रेषु भेषु च । सार्द्धात्रयस्त्रिंशदशाः प्रत्येकं कल्पनोचिताः ॥ ८६ ॥ ततश्च षड्ाः सार्द्धात्रयस्त्रिंशजातं सैकं शतद्वयम् । सार्द्धक्षेत्रेषु प्रत्येकं, भागाश्राद्धशयुक् शतम् ॥ ८७ ॥ सार्द्धक्षेत्राणि पडिति, त एते षड्गुणीकृताः । सत्रीणि षट् शतान्येकविंशतिचाभिजिल्लवाः ॥ ८८ ॥ अष्टादश शतान्येवं, त्रिंशानि सर्व संख्यया । एतावदंश प्रमितं, स्यादेकमार्द्धमण्डलम् ॥ ८९ ॥ तावदेवापरमिति, द्वाभ्यामिदं निहन्यते । षष्ट्याधिकानि पत्रिंशच्छतानीत्यभवन्निह ॥ ९० ॥ त्रिंशमुहूर्त्ता एकस्मिन्नहोरात्र इति स्फुटम् । सषष्टिषट्त्रिंशदशशतेषु कल्पनोचिता ॥ ९१ ॥ त्रिंशद्विभागाः प्रत्येकं, गुण्यन्ते त्रिंशतेति ते । जातं लक्षमेकमष्टानवत्या सहितं शतैः ॥ ९२ ॥ एतस्मान्मण्डलच्छेदमानादेव प्रतीयते । शशाङ्कभास्करोडूनां, गत्याधिक्यं यथोत्तरम् ॥ ९३ ॥ तथाहि एकैकेन मुहूर्त्तेन, शशी गच्छति लीलया । प्रक्रान्तमण्डलपरिक्षेपांशानां यदा तदा ॥ ९४ ॥ अष्टषष्ट्या समधिकैरधिकं सप्तभिः शतैः । सहस्रमेकमर्कस्तु, मुहूर्त्तेनोपसर्पति ॥ ९५ ॥ त्रिंशान्यष्टादश शतान्युडूनि संचरन्ति च । पञ्चत्रिंशत्समधिकान्यष्टादश शतानि वै ॥ ९६ ॥ उक्तेन्दु भास्करोडूनां गतिः प्रागू योजनात्मिका । इयं वंशात्मिका चिन्त्यं, पौनरुक्त्यं ततोऽत्र न ॥ ९७ ॥ विशेषस्त्वनयोर्गत्योः कश्चिन्नास्ति स्वरूपतः । प्रत्ययः
asional
For Private & Personal Use Only
"
समक्षेत्र
त्वादि
२०
२५
॥ २४८ ॥
२८
jainelibrary.org