________________
Jain Educat
कोऽत्र यद्येवं, तत्रोपायो निशम्यताम् ॥ ९८ ॥ खखमण्डल परिधिर्मण्डलच्छेदराशिना । विभज्यते यल्लब्धं तत्, सुधिया ताब्यते किल ॥ ९९ ॥ उक्तेन्द्र कडुभागात्ममुहूर्त्तगतिराशिभिः । मुहूर्त्तगतिरेषां स्यात्पूर्वोक्ता योज नात्मिका ॥ ६०० ॥ त्रैराशिकेन यदिवा, प्रत्ययोऽस्या विधीयताम् । किं तत्रैराशिकमिति, यदीच्छा तन्निशस्यताम् ॥ १ ॥ स्यान्मण्डला पूर्त्तिकालो, विधोः प्राग्वत्सवर्षिणतः । पंचविंशाः शताः सप्त, सहस्राश्च त्रयोदश ॥ २ ॥ अस्योपपत्तिर्योजनात्मक मुहूर्त्तगत्यवसरे दर्शिताऽस्ति ततश्च पञ्चविंशसप्तशतत्रयोदशसहस्रकैः । मुहर्त्ताशैर्लक्षमष्टानवतिश्च शता यदि ॥ ३ ॥ मण्डलांशा अवाप्यन्ते, ब्रूताऽऽप्यन्ते तदा कति । एकेना, न्तर्मुहूर्तेन, राशित्रयमिदं लिखेत् (१३७२५ । १०९८००।१) ॥ ४ ॥ आयो राशिर्मुहूर्ताशरूपोऽन्त्यस्तु मुहूर्त्तकः । सावण्यर्थमेकविंशद्विशत्याऽन्त्यो निहन्यते ॥५॥ एकविंशा द्विशती स्यान्मध्यराशिरथैतया । हतः कोटिद्वयं लक्षाद्विचत्वारिंशदेव च ॥६॥ पञ्चषष्टिः सहस्राणि, शतान्यष्ट भवन्त्यथ । पञ्चविंशसप्तशतत्रयोदशसहस्रकैः ॥७॥ एषां भागे हृते लब्धा, मुहूर्त्तगतिरैन्दवी । भागात्मिका यथोक्ता च सा रवेरपि भाव्यते ॥ ८ ॥ पूर्वोक्तो मण्डलच्छेदराशिः षष्ट्या मुहूर्त्तकैः । यद्याप्यते मुहूर्त्तेन, तदैकेन किमाप्यते ॥ ९ ॥ ( १०९८००/६०११ ) गुणितोऽन्त्येनैककेन, मध्यराशिस्तथा स्थितः । अष्टादशशतीं त्रिंशां, यच्छत्याद्येन भाजितः ॥ १० ॥ भमण्डलपूर्त्तिकालमानं भवेत् सवर्णितम् । षष्टियुक्ता नवशती, सहस्राश्चैकविंशतिः ॥ ११ ॥ उपपत्तिरस्य योज नात्मकगत्यवसरे दर्शिताऽस्ति ॥ ततश्च - एतावद्भिर्मुहूर्त्ताशैर्मण्डलच्छेदसंचयः । प्रागुक्तश्चेल्लभ्यते तन्मुहूर्त्तेन
ational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org