________________
लोकप्रकाशे २० सर्गे
॥२४७॥
Jain Educati
पूर्वा, फाल्गुन्येव तथोत्तरा । स्वातिश्च द्वादशैतानि सर्वाभ्यन्तरमण्डले ॥ ५३ ॥ चरन्ति तन्मण्डलार्द्ध, यथोक्तकालमानतः । पूरयन्ति तदन्यार्द्ध, तथा तान्यपराण्यपि ॥ ५४ ॥ पुनर्वसू मघाश्वेति द्वयं द्वितीयमण्डले । तृतीये कृत्तिकास्तुर्ये, चित्रा तथा च रोहिणी ॥ ५५ ॥ विशाखा पश्चमे षष्ठेऽनुराधा सप्तमे पुनः । ज्येष्ठाऽष्टमे त्वष्ट भानि, सदा चरन्ति तद्यथा ॥ ५६ ॥ आर्द्रा मृगशिरः पुष्योऽश्लेषा मूलं करोऽपि च । पूर्वाषाढोत्तराषाढे, इत्यष्टान्तिममण्डले ॥५७॥ पूर्वोत्तराषाढयोस्तु, चतुस्तारकयोरिह । द्वे द्वे स्तस्तारके मध्ये बहिश्चाष्टममण्डलात् ॥५८॥ अष्टानां द्वादशानां च बाह्याभ्यन्तरचारिणाम् । सर्वेभ्योऽपि बहिर्मूलं, सर्वेभ्योऽप्यन्तरेऽभिजित् ॥ ५९ ॥ तथाहु:- "अह भरणि साइ उवरि यहि मूलोऽभिन्तरे अभिई" यानि द्वादश ऋक्षाणि सर्वाभ्यन्तरमण्डले । तानि चन्द्रस्योत्तरस्यां संयुज्यन्तेऽमुना समम् ॥ ६० ॥ एभिर्यदोड्डुभिः सार्द्धं, योगस्तदा स्वभावतः । शेषेष्वेव मण्डलेषु भवेचारो हिमद्युतेः ॥ ६१ ॥ सर्वान्तर्मण्डलस्थानामेषामुत्तरवर्त्तिता । चन्द्राद्युक्ता तदेभ्यश्च, विधोर्दक्षिणवर्त्तिता ॥ ६२ ॥ मध्यमीय मण्डलेषु, यान्युक्तान्यष्ट तेषु च । विना ज्येष्ठां त्रिधा योगः, सप्तानां शशिना समम् ॥ ६३ ॥ उत्तराहो दाक्षिणात्यो, योगः प्रमद्दनामकः । आद्यो बहिश्वरे चन्द्रे, द्वितीयोऽन्तश्चरे स्वतः ॥ ६४ ॥ प्रमर्दो भविमानानि, भिवेन्दोर्गच्छतो भवेत् । योगः प्रमई एव स्याज्येष्ठायाः शशिना समम् ॥ ६५ ॥ उडून्याधानि षड् भेषु, बाह्यमण्डलवर्त्तिषु । इन्दोर्दक्षिणदिकस्थानि, संयुज्यन्तेऽमुना समम् ॥ ६६ ॥ पूर्वोत्तराषाढयोस्तु, बाह्यताराव्यपेक्षया । याम्यायां शशिनो योगः, प्रज्ञप्तः परमर्षिभिः ॥ ६७ ॥ द्वयोर्द्वयो
10ational
For Private & Personal Use Only
चन्द्र-मण्ड
लावेशः दिग्योगः
२०
२५
॥२४७॥
२८
v.jainelibrary.org