________________
ो. प्र. ४२
Jain Educati
शती च त्रिषष्टियुक् ॥ ३८॥ सहस्रैरेकविंशत्या, षष्ट्याढ्यैर्नवभिः शतैः । भागेऽस्य राशेः प्रागुक्ता, मुहूर्त्तगतिराप्यते ॥ ३९ ॥ तथा-योजनानां त्रिपञ्चाशच्छती सैकोनविंशतिः । सहस्रैरेकविंशत्या, पष्ट्याढ्यैर्नवभिः शतैः ॥ ४० ॥ भक्तस्य योजनस्यांशाः, सहस्राः षोडशोपरि । सपञ्चषष्टिस्त्रिशती, गतिः सर्वान्त्यमण्डले ॥४१॥ तथाहि - लक्षत्रयं योजनानामष्टादशसहस्रयुक् । शतत्रयं पञ्चदश, परिक्षेपोऽन्त्यमण्डले ॥ ४२ ॥ अयं त्रिभिः सप्तषष्टिसहितैस्ताडितः शतैः । कोट्य एकादश लक्षा, अष्टषष्टिः किलाधिकाः ॥ ४३ ॥ सहस्रैरेकविंशत्या, | शतैः षड्भिः सपञ्चभिः । राशेरस्यैकविंशत्या, सहस्रैर्नवभिः शतैः ॥ ४४ ॥ हृते षष्ट्यधिकैर्भागे, मुहूर्त्तगतिराप्यते । नक्षत्राणां किल सर्वबाह्यमण्डलचारिणाम् ॥ ४५ ॥ इति मुहूर्त्तगतिः ॥
षट्सु शेषमण्डलेषु, मुहूर्त्तगतिसंविदे । सुखेन तत्तत्परिधिज्ञानाय क्रियतेऽधुना ॥ ४६ ॥ भमण्डलानां सर्वेषां मण्डलेष्वमृतद्युतेः । समवतारस्तत्राद्यमाद्ये शशाङ्कमण्डले ॥ ४७ ॥ भमण्डलं द्वितीयं च तृतीये चन्द्रमण्डले । षष्ठे तृतीयं विज्ञेयं, लवणोदधिभाविनि ॥ ४८ ॥ चतुर्थ सप्तमे ज्ञेयं, तथा पञ्चममष्टमे । विज्ञेयं दशमे षष्ठमेकादशे च सप्तमम् ॥ ४९ ॥ अष्टमं च पञ्चदशे, शेषाणि तु सदोड्डुभिः । सप्त चन्द्रमण्डलानि, | रहितानि विनिर्दिशेत् ॥ ५० ॥ एषां चन्द्रमण्डलानां, परिक्षेपानुसारतः । पूर्वोक्तविधिना भानां, मुहूर्त्तगतिराप्यते ॥ ५१ ॥ इति चन्द्रमण्डलावेशः ॥
अभिजिच्छ्रवणश्चैव, धनिष्ठा शततारिका । पूर्वोत्तराभद्रपदा, रेवती पुनरश्विनी ॥ ५२ ॥ भरणी फाल्गुनी
national
For Private & Personal Use Only
१०
१४
w.jainelibrary.org