SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ यत्र यत्र यानि यानि, वक्ष्यन्ते भानि मण्डले । स्यात्तदीयविमानानां, द्वे योजने मिथोऽन्तरम् ॥१४॥ मिथोऽन्तरमुडूनां चेदिदमेव भवेत्तदा । मण्डलक्षेत्रमन्यत्स्याद्भशून्यं तच्च नेष्यते ॥१५॥ यत्तु-"दो जोअणाई णखत्तमंडलस्स णखत्तमंडलस्स य आबाहाए अंतरे पण्णत्ते" इत्येतत् जम्बूद्वीपप्रज्ञप्तिसूत्रं तत् अष्टाखपि मण्डलेषु यत्र २ मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकं, यच्च अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं द्वे योजने इतिउ० श्रीशान्तिचन्द्रगणिभिः स्वकृतवृत्ती व्याख्यायि तदभिप्रायं सम्यग् न विद्मः, यदपि उ० श्रीधर्मसागरगणिभिः खकृतवृत्तौ एतत्सूत्रव्याख्याने द्वे योजने नक्षत्रस्य २ चाबाधया अन्तरं प्रज्ञप्तमित्येव लिखितमस्ति तदप्यभिप्रायशुन्यमेवच ॥ चतुश्चत्वारिंशतव, सह रष्टभिः शतैः। विशैश्च योजनौरोः, सर्वान्तरं भमण्डलम् ॥ १६॥ सहस्रः पञ्चचत्वारिंशता विशैस्त्रिभिः शतैः । योजनौरुतः सर्ववाद्यं नक्षत्रमण्डलम् ॥ १७॥ इति सुमेरोरबाधा। विष्कम्भायामपरिधिप्रमुखं मानमेतयोः। रवेः सर्वान्तरसर्वबाह्यमण्डलयोरिव ॥ १८॥ इति मण्डलविष्कभादि ॥ सहस्राणि पञ्च शतद्वयं च पञ्चषष्टियुक् । योजनानि योजनस्य, भक्तस्यैकस्य निश्चितम् ॥ १९॥ एकविंशत्या सहस्रः, षष्ट्याव्यैर्नवभिः शतैः। विभागाश्च समधिकाः, पूर्वोक्तयोजनोपरि ॥२०॥ अष्टादश सहत्राणि, शतद्वयं त्रिषष्टियुक् । सर्वान्तर्मण्डलोडूनां, मुहूर्त्तगतिरेषिका॥२१॥ उपपत्तिश्चात्र-नक्षत्रं सर्वमप्यत्र, पूरयेत् खखमण्डलम् । मुहूत्तरेकोनषष्टया, मुहूर्त्तस्य तथा लवैः॥२२॥ ससप्तषष्टित्रिंशदूविभक्तस्य त्रिभिः शतैः।।१४ Jain Educatio n For Private Personal use only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy