________________
मण्डलानां चतुष्टयी ॥५॥ एतेषु मण्डलेष्विन्दुनक्षत्राणि तथा रविः । चारं चरन्ति सर्वेऽपि, राजमार्ग
जना इव ॥६॥ षष्ठादीनि पश्च सूर्यचारहीनानि सर्वथा । शेषाणि मण्डलानीन्दोः, किञ्चिद्भानुः स्पृशेदपि R॥७॥ स्थापना ॥ साधारणासाधारणमण्डलान्येवमूचिरे । सम्प्रतीन्दोवृद्धिहानिप्रतिभासः प्ररूप्यते ॥ ८॥
अवस्थितखभावं हि, खरूपेणेन्दुमण्डलम् । सदापि हानिवृद्धिवा, येक्ष्यते सान तात्त्विकी ॥९॥ केवलं या शुक्लपक्षे, वृद्धिोनिस्तथा परे । राहुविमानावरणयोगात् सा प्रतिभासते॥१०॥ तथाहि-ध्रुवराहुः पर्वराहुरेवं राहुर्दिधा भवेत् । ध्रुवराहोस्तत्र कृष्णतमं विमानमीरितम् ॥११॥ तच चन्द्रविमानस्य, प्रतिष्ठितमधस्तले । चतुरङ्गुलमप्राप्त, चारं चरति सर्वदा ॥१२॥ तेनापावृत्त्य चावृत्य, चरत्यधः शनैः शनैः। वृद्धिहानिप्रतिभासः, पोस्फुरीतीन्दुमण्डले ॥१३॥ तथोक्तं-"चंदस्स नेव हाणी नवि वुड्डी वा अवडिओ चंदो। सुकिलभावस्स पुणो दीसइ वुड्डी यहाणी य॥१४॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिहा चंदस्स तं चरइ॥१६॥ तेणं वड्डइ चंदो परिहाणी वावि होइ चंदस्स” तत्र प्रकल्प्य द्वापष्टिं, भागान् शशाङ्कमण्डले । हियते पञ्चदशभिर्लभ्यतेशचतुष्टयम् ॥१६॥ एतावदाब्रियते तत्, प्रत्यहं भरणीभुवा । अहोभिः पञ्चदशभिरेवमावि-1 यतेऽखिलम् ॥ १७॥ द्वौ भागौ तिष्ठतः शेषौ, सदैवानावृतौ च तौ । एषा कला पोडशीति, प्रसिद्धिमगम भुवि ॥ १८ ॥ कल्प्यतेऽशाः पंचदश, विमाने राहवेऽथ सः। जयत्येकैकांशवृया, नीतिज्ञोऽरिमिवोडपम् ॥ १९॥ तच्चैवं-खीयपञ्चदशांशेन, कृष्णप्रतिपदि ध्रुवम् । मुक्त्वांशौदावनावायौं, शेषपष्टेः सितत्विषः॥२०॥
वुही या अवलि
पञ्चदशशिवहर चंदो परिमाविमाणं निचं
Jain Educat
Mainelibrary.org
For Private 8 Personal Use Only
i onal