________________
भावनीयः परिक्षेपः, स चायमुपपद्यते ॥५१॥ तिस्रो लक्षाः पञ्चदश, सहस्राणि शतत्रयम् । योजनान्येको-18 नविंश, साधिक किश्चनाथवा ॥५२॥ पूर्वमण्डलविष्कम्भात्परमण्डलविस्तृतौ । द्वासप्ततिर्योजनानि, वृद्धिः प्राक्प्रत्यपादि या॥५३॥ तस्याः पृथक्परिक्षेपः, कर्त्तव्यः कोविदेन्दुना । द्वे शते त्रिंशदधिके, योजनानां भवेदसौ ॥५४॥ पूर्वपूर्वपरिक्षेपे, यद्ययं क्षिप्यते तदा । परापरपरिक्षेपा, भावनीया यथोत्तरम् ॥५५॥ इयमिन्दुमण्डलानां, परिक्षेपप्ररूपणा । मुहूर्त्तगतिमाख्यामि, संप्रति प्रतिमण्डलम् ॥५६॥ उपसंक्रान्तयोरिन्दोः, 8|सर्वाभ्यन्तरमण्डले । पञ्च पश्च सहस्राणि, योजनानां त्रिसप्ततिः ॥७॥ सहस्रेस्त्रयोदशभिः, सतत्त्वैः सप्तभिः
शतैः । छिन्नस्य योजनस्यांशशताश्च सप्तसप्ततिः ॥५८॥ चतुश्चत्वारिंशदाख्या ५०७३ ७४४, मुहर्तगतिरेषिका । जिज्ञास्यतेऽस्याश्चेबीजं, श्रूयतां तर्हि भावना ॥ ५९॥ इहैकैकोऽप्यमृतांशुरेकैकमर्द्धमण्डलम् । एकनाहोरात्रेणैकमुहाधिक्यशालिना ॥६०॥ शताभ्यामेकविंशाभ्यां, द्वाभ्यां छिन्नस्य निश्चितम् । मुहूर्तस्यैकादशभिः, सार्दुर्भागैः प्रपूरयेत् ॥ ६१ ॥ युग्मं । एवं शशी द्वितीयोऽपि, द्वितीयमर्द्धमण्डलम् ।। कालेनैतावतैव द्राग, भ्रमणेन प्रपूरयेत् ॥६२॥ संपूर्णस्य मण्डलस्य, पूर्तिकालो यदेष्यते । अहोरात्रद्वयं द्वाभ्यां मुहर्ताभ्यां युतं तदा ॥ ६३॥ एकविंशत्यधिकाभ्यां, शताभ्यां चूर्णितस्य च । त्रयोविंशतिरंशानां, मुहूर्तस्य विनिर्दिशेत् ॥ ६४॥ दि०२-२-२३ । मण्डले पूर्तिकाले च, प्रत्ययः केन चेदिति । त्रैराशिकेन तदपि, श्रूयतां यदि कौतुकम् ॥६५॥ भानुर्लघुविमानत्वाच्छीघ्रगामितयाऽपि च । षष्ट्या मुहूत्तैरेकैकं, मण्डलं परिपूरयेत्
१४
Jain Educa
t
ional
For Private
Personel Use Only
(ONw.jainelibrary.org