SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २० सर्गे ॥२३८॥ Jain Education Int ॥३॥ इत्यर्द्धमण्डलस्थितिः ७ । सूर्यवक्तव्यता चैवं यथाम्नायं प्रपंचिता । एवं प्रपञ्चयामोऽथ, चन्द्रचारप्ररूपणाम् ॥ ४ ॥ आदौ क्षेत्रं मण्डलानां १, तदबाधा २ तदन्तरम् ३ । तच्चारश्च ४ वृद्धिहानिप्रतिभासप्ररूपणा ५ ॥ ५ ॥ अत्रानुयोगद्वाराणि पञ्चाहुस्तत्त्ववेदिनः । तत्रादौ मण्डल क्षेत्रपरिमाणं प्रतन्यते ॥ ६ ॥ मण्डलानि पञ्चदश, चन्द्रस्य सर्व संख्यया । पट्पंचाशयोजनैकषष्टिभागपृथून्यतः ॥ ७ ॥ गुणिताः पञ्चदशभिः, षट्पञ्चाशद्भवन्ति ते । अष्टौ शतानि चत्वारिंशान्येकषष्टिजा लवाः ॥ ८ ॥ एकषष्ट्या विभज्यन्ते, योजनानयनाय ते । त्रयोदश योजनानि, लब्धान्येतत्तु शिष्यते ॥ ९ ॥ सप्तचत्वारिंशदंशा, योजनस्यैकषष्टिजाः । मण्डलानां पुनरेषा - मन्तराणि चतुर्द्दश ॥ १० ॥ पञ्चत्रिंशयोजनानि, त्रिंशत्तथैकषष्टिजाः । लवा एकस्यैकषष्ट्यंशस्य क्षुण्णस्य सप्तधा ॥ ११ ॥ भागाश्चत्वार एकैकमेतावदन्तरं भवेत् । शीतद्युतेर्मण्डलेषु तत्रोपपत्तिरुच्यते ॥ १२ ॥ चन्द्रमण्डलविष्कम्भे, प्राग्वत्पञ्चदशाहते । शोधिते मण्डलक्षेत्रा योजनानां चतुःशती ॥१३॥ शेषा सप्तनवत्याढ्या, | ह्येकोऽंशश्चैकषष्टिजः । विभज्यन्ते ते च चतुर्द्दशभिर्मण्डलान्तरैः ॥ १४ ॥ पञ्चत्रिंशद्योजनानि, लब्धान्युद्धरिते हते । एकषष्ट्यैक षष्ट्यंशेनैकेन च समन्विते ॥ १५ ॥ अष्टाविंशा चतुःशत्येतस्याश्च भजने सति । चतुर्दशभिराप्यन्ते, त्रिंशदंशाः पुरोदिताः ॥ १६ ॥ शेषा अष्टौ स्थिता भाज्या, भाजकाश्च चतुर्दश । भागाप्रायाऽपवर्त्यते, ततो द्वाभ्यामुभावपि ॥ १७ ॥ भागभागास्ततो लब्धाश्चत्वारः साप्तिका इति । एतच्चतुर्दशगुणं, कर्त्तव्यं प्रथमं त्विह ॥ १८ ॥ पञ्चत्रिंशद्योजनानि, चतुर्दशगुणानि वै । शतान्यभूवंश्चत्वारि, नवत्याख्यानि येऽपि च For Private & Personal Use Only चन्द्रस्य मण्डल क्षेत्रं & २५ ॥२३८ ॥ २८ elibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy