SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ण्डलात् ॥ ८७ ॥ दाक्षिणात्यस्तदा सूर्यः सर्वान्तर्मण्डलाश्रितात् । विनिर्गत्य दक्षिणार्द्धाद्वायव्यां सुरभूभृतः ॥ ८८ ॥ द्वितीयस्य मण्डलस्योत्तरार्द्धमाश्रितश्चरन् । मेरोरुत्तरदिग्भागं, प्रकाशयति दीपवत् ॥ ८९ ॥ उत्तराहःपतंगस्तु, सर्वान्तर्मण्डलाश्रितात् । उत्तरार्द्धाद्विनिर्गत्य मेरोर्दक्षिणपूर्वतः ॥ ९० ॥ द्वितीयस्य मण्डलस्य, दक्षिणार्द्धमुपाश्रितः । मेरोर्दक्षिणदिग्भागं, प्रकाशयति लीलया ॥ ९१ ॥ क्षेत्रमाभ्यां च यत्स्पृष्टं, तस्याह्नः प्रथमक्षणे । द्वितीयं मण्डलं बुद्ध्या, कल्प्यते तदपेक्षया ॥९२॥ एवं च- एकैकस्मिन्नहोरात्रे, एकैकमर्द्धमण्डलम् । संक्रम्य संचरन्तौ तावन्योऽन्यव्यतिहारतः ॥ ९३ ॥ प्रत्येकं द्वौ मुहतैकषष्टिभागौ दिने दिने । क्षपयन्तौ सर्वबाह्यमण्डलावधिगच्छतः ॥ ९४ ॥ तस्मिन् पुनः सर्वबाह्यार्वाचीनमण्डलस्थितात् । दक्षिणार्द्धाद्विनिर्गत्य, सर्वान्त्यमण्डलाश्रितम् ॥ ९५ ॥ उत्तरार्द्ध स विशति यः प्रकाशितवान्पुरा। रविर्मेरोर्याम्यभागं, सर्वाभ्यन्तरमण्डले ॥ ९६ ॥ यस्तु तत्रोत्तरभागमदिदीपद्रविः पुरा । स सर्वबाह्यार्वाचीनमण्डलस्योत्तरार्द्धतः ॥९७॥ निर्गत्य दीपयेद्याम्यमर्द्ध सर्वान्त्यमण्डले । आद्यं संवत्सरस्यार्द्धमेवमाभ्यां समाप्यते ॥ ९८ ॥ ततस्तौ दावपि रवी, सौम्यायनामिक्षणे । अनन्तरं सर्वबाह्याद्वितीयं मण्डलं श्रितौ ॥ ९९ ॥ उत्तरार्द्ध योऽदिदीपत्सर्वान्त्यमण्डलाश्रितम् । दीपयेत्सोऽत्र याम्यार्द्धमुत्तरार्द्ध ततः परम् ॥ ३०० ॥ एवं पुनर्मण्डलार्द्धमेकैकं व्यतिहारतः । एकै कस्मिन्नहोरात्रे, आक्रामन्तौ दिवाकरौ ॥ १ ॥ प्रत्येकं द्वौ मुहत्कषष्टिभागौ दिने दिने । वर्द्धयन्तौ क्रमात्प्राप्तौ, | सर्वाभ्यन्तरमण्डले ॥ २ ॥ मण्डलेऽस्मिन्नहोरात्रे, गतान्दस्यातिमे रवी । यथाऽदिदीपतामर्द्धे, पुनर्दीपयतस्तथा Jain Educamational For Private & Personal Use Only १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy