________________
लोकप्रकाशे २० सर्गे
॥२३७॥
न परतश्च तौ ॥ ७२ ॥ एवं दृष्टिपथप्राप्तिप्ररूपणा प्रपंचिता । अथ प्ररूपणां भान्वोः, कुर्मोऽर्द्धमण्डलस्थितेः ॥७३॥६॥ एकं मण्डलमेकेनाहोरात्रेण समाप्यते । द्वाभ्यामभिमुखस्थाभ्यां रविभ्यां प्रतिवादिवत् ॥ ७४ ॥ मेरोर्दक्षिणपूर्वस्यां यदा प्रथममेव हि । एकः सूर्यः प्रविशति, सर्वाभ्यन्तरमण्डलम् ॥ ७५ ॥ पश्चिमो - उत्तरदिग्भागे, तदैवान्योऽपि भास्करः । समकालं स्पर्द्धयेव, सर्वान्तर्मण्डले विशेत् ॥ ७६ ॥ इत्थं ताभ्यां प्रविशद्भ्यां व्यासं यत्प्रथमक्षणे । क्षेत्रं व्यपेक्षया तस्य, कल्प्यमान्तरमण्डलम् ॥ ७७ ॥ प्रथमान्तु क्षणादूर्द्ध विवखन्तौ शनैः शनैः । क्रमादपसरन्तौ च सर्वाभ्यन्तरमण्डलात् ॥ ७८ ॥ अनन्तरवहिर्भा विमण्डलाभिमुखं किल । सर्पन्तौ चरतश्चारं, ततश्च प्रथमक्षणे ॥ ७९ ॥ स्पृष्टं क्षेत्रं यदेताभ्यां तदपेक्ष्य प्रकल्पितम् । ज्ञेयं मण्डलतुल्यत्वान्मण्डलं न तु तात्त्विकम् ॥ ८० ॥ तथाहुः- “रविदुगभमणवसाओ निष्फज्जइ मंडलं इहं एगं । तं पुण मंडलसरिसंति मंडलं बुचइ तहाहि ॥ ८१ ॥ गिरिनिसढनीलवंतेसु उग्गयाणं रवीण कक्कमि । पढभाउ चैव समया ओसरणेणं जओ भ्रमणं ॥८२॥ तो नो निच्छयरूवं निष्फज्जइ मंडलं दिणयराणं । चंद्राणवि एवं चिय निच्छयओ मंडलाभावो ॥ ८३ ॥” मेरोदक्षिणपूर्वस्यामेकोऽभ्यन्तरमण्डले । संक्रम्य याम्यदिग्भागं, यदा मेरोः प्रकाशयेत् ॥ ८४ ॥ तदाऽपरोत्तरदिशि प्राप्तोऽभ्यन्तरमण्डलम् । अन्यो मेरोरुदग्भागं, प्रकाशयति भानुमान् ॥ ८५ ॥ युग्मम् | दक्षिणोत्तरयो मेरोः, सर्वोत्कृष्टं दिनं तदा। रात्रिः सर्वजघन्यैषोऽहोरात्रो वत्सरेऽन्तिमः ॥ ८६ ॥ अहोरात्रे नवाब्दस्य, चरतः प्रथमे यदि । द्वितीयस्मिन्मण्डलेऽर्को, निष्क्रम्यान्तरम
Jain Education sonal
For Private & Personal Use Only
सूर्यस्यार्धम ण्डलस्थि
तिः
२०
२५
॥२३७॥
२८
ainelibrary.org