________________
Jain Education
यद्यपि बाह्यतृतीयमण्डलाद्व्यशीत्यधिकशततमे सर्वाभ्यन्तरमण्डले यथोक्तकरणेन त्र्यशीतियोंजनानि द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः ॥ ६६ ॥ ( ८३-१४ । ३) एवंरूपः क्षेप्यराशिर्भवति तथापि येन ध्रुवकात् षत्रिंशद्यथोक्तरूपाः शोधितास्ते कलया न्यूना अपि पूर्णा एव विवक्षितास्ततः किञ्चिदधिकं निर्गतं, तच्चाधिक्यं सर्वाभ्यन्तरे मण्डले एकत्र पिण्डितं सत् अष्टषष्टिरेकषष्टिभागा भवन्ति, ततस्ते भूयः क्षेप्यराशौ क्षिप्यन्ते, ततो जातः क्षेप्यराशिः यो० ८३ षष्टिभा० २३ एकस्य षष्टिभागस्य एकषष्टिभा० ४२, अस्मिंश्च राशौ सर्वाभ्यन्तरानन्तरद्वितीय मण्डलगतदृक्पथपरिमाणे योजिते सति यथोक्तं सर्वाभ्यन्तरमण्डले दृक्पथपरिमाणं भवतीति ज्ञेयं । कथं चैवं योजनानां, सहस्रैर्दूरगावपि । आसन्नाविव दृश्येते तरणी उदयास्तयोः ॥ ६७ ॥ मध्याह्ने तु योजनानामष्टशत्यां स्थितावपि । दूरस्थाविव दृश्येते कथमुष्णत्विषौ ननु ? || ६८ ॥ अत्रोच्यते - दूरत्वेन प्रतीघातात्वबिम्बमहसां रवी । आसन्नौ सुखदृश्यत्वात् ज्ञायेते उदयास्तयोः |||६९ ॥ मध्याह्ने चासन्नतया, प्रसर्पत्तीवरश्मिभिः । ज्ञायेते दुर्निरीक्ष्यत्वादासन्नावपि दूरगौ ॥७०॥ तथा चागमः"लेस्सापडिघाएणं उग्गमण मुहुत्तंसि दूरे अ मूले अदीसंति इति, लेसाहितावेणं मज्झतिअमुहुत्तंसि मूले अदूरे अदीसंति, लेसा पडिघाएणं अत्थमणमुत्तंसि दूरे अमूले अदीसंति" अत्र दूरे चेति द्रष्टृस्थानापेक्षया विप्रकृष्टे, मूले चेति द्रष्टृमतीत्यपेक्षया आसन्ने इति भग० श०८ उ० ८ | दूरत्वादेव भूलनाविव तावुदयास्तयोः । नैकट्यादेव दृश्येते, मध्याहे खाग्रगाविव ॥ ७१ ॥ उचत्वं तु सर्वदापि समानमेव सूर्ययोः । योजनानां ह्यष्टशत्या, नार्वाग्
tional
For Private & Personal Use Only
५
१०
१४
v.jainelibrary.org