________________
लोकप्रकाशे २० सर्गे
॥२३६॥
Jain Education
सार्द्धन गुण्यते । ततोऽप्येतदृक्पथातिमानं सर्वान्त्यमण्डले ॥ ५१ ॥ सर्वषाह्यार्वाक्तने तु, चतुरशीतिवर्जितैः । & सूर्यस्य दृष्टिद्वात्रिंशता योजनानां सहस्रैर्दृश्यते रविः ॥ ५२ ॥ अंशैश्चैकोनचत्वारिंशता षष्टिसमुद्भवैः । एकस्य षष्टि- पथप्राप्तिः भागस्य, षष्ट्या शैश्चैकषष्टिजै: ( ३१९१६६६ ) ॥ ५३ ॥ पञ्चाशीतिर्योजनानि, नव भागाश्च षष्टिजाः । षष्ट्यंशस्यैकस्य भागाः, षष्टिस्तथैकषष्टिजाः ( ८५६ ॥ ५४ ॥ सर्वान्त्यमण्डलादर्वाचीनद्वितीयमण्डले । एषा वृद्धिस्ततो वृद्धौ, पुरतो ध्रुवकोऽप्यसौ ॥ ५५ ॥ सर्वबाह्यात् तृतीयादिमण्डलेष्वथ दृक्पथम् । ज्ञातुं गुणितया पश्चाशीत्यैकयादिसंख्यया ॥ ५६ ॥ ध्रुवा न्यूनितेऽसौ स्यात्, क्षेप्यराशिरनेन च । प्राच्य| मण्डलहरमार्गो, युक्तः स्यादिष्टमण्डले ॥ ५७ ॥ तथाहि - तृतीये मण्डले बाह्यात्, षड्रिंशदेकताडिता । ध्रुवकात्तदवस्यैव, विशोध्यते ततः स्थितम् ॥ ५८ ॥ पंचाशीतिर्योजनानि, षष्टिजाश्च लवा नव । षष्ट्यंशस्यैकस्य लवाश्चतुवैिशतिरेव च ॥ ५९ ॥ द्वितीयमण्डलस्याक्षिगोचारगेन संयुते । तृतीयमण्डले दृष्टिपथमानं भवेदिदम् ॥ ६० ॥ योजनानां सहस्राः स्युर्द्वात्रिंशत् सैकयोजनाः । भागा एकोन - पञ्चाशद्, योजनस्य च षष्टिजाः ॥ ६१ ॥ एकषष्टिविभक्तस्यैकस्य षष्टिलवस्य च । त्रयोविंशतिरेवांशा, एवं सर्वत्र भावना ॥ ६२ ॥ एवमन्तः प्रविशतः सूर्यस्य बाह्यमण्डलात् । पूर्वोक्तरीत्या दृगमार्गप्रमाणे वर्द्धते | रवेः ॥ ६३ ॥ पञ्चाशीतिः सातिरेका, संपूर्णा सैव कुत्रचित् । साधिका चतुरशीतिः, कापि सा केवला कचित् ॥ ६४ ॥ त्र्यशीतिः साधिका कापि, योजनानां यथायथम् । सर्वान्तर्मण्डलं यावद्भाव्यं तच प्रदर्शितम् ॥ ६५ ॥
national
For Private & Personal Use Only
२०
२५
॥ २३६ ॥
२८
jainelibrary.org