SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ रो. प्र. ४० Jain Education In भक्तैर्विवखतोः ॥ १३ ॥ यद्वा प्रतिपरिक्षेपं, योक्ताऽष्टादशयोजनी । वृद्धिः षष्ट्या विभक्तुं तामूर्ध्वाधस्तद्वयं न्यसेत् (१८ ||६० ) ||१४|| राशिः पष्टेन दत्तेऽंशं तत्राष्टादशलक्षणः । ततोऽष्टादश षष्टिप्राः स्युः सहस्रमशीति( १०८० ) युक् ॥ १५ ॥ तेषां षष्ट्या हृते भागे, लब्धा अष्टादश स्फुटम् । एतावन्तः षष्टिभागाः, किञ्चिदूनास्तु निश्चयात् ॥ १६ ॥ प्राच्यमण्डलमुहूर्त्तगतौ क्षिप्यन्त इत्यतः । यथोक्तं तत्परीमाणं भवेदेवं यथोत्तरम् ॥१७॥ एतद्याम्यायने सौम्यायने तु प्रतिमण्डलम् । अष्टादशांशाः क्षीयंते, मुहूर्त्तीयगतौ रवेः ॥ १८ ॥ एवं च सर्वबाह्ये योजनानां, पंचोत्तरं शतत्रयम् । सहस्राणि पंच पंचदशभागाश्च षष्टिजाः ॥ १९ ॥ सर्वान्तिमार्वाचीने तु, त्रिशती चतुरुत्तरा । सहस्राणि पञ्च सप्तपञ्चाशत् षष्टिजा लवाः ॥ २० ॥ मुहूर्त्तगतिरित्येवं, विवखतोर्निरूपिता । अथ प्रपश्यते दृष्टिपथप्राप्तिप्ररूपणा ॥ २१ ॥ मुहूर्त्तगतिरर्कस्य, या विवक्षितमण्डले । यच तस्मिन्दिनमानं द्वयमेतत्पृथग् न्यसेत् ॥ २२ ॥ मुहूर्त्तगतिरेषाऽथ, दिनमानेन गुण्यते । एकार्कस्य तदैकाहः प्रकाश्यं क्षेत्रमाप्यते ॥ २३ ॥ यावच्चैकाहः प्रकाश्यं, क्षेत्रमेकत्र मण्डले । तदर्द्धन मनुष्याणां भवेद् दृग्गोचरो रविः ॥ २४ ॥ अयं भावः यावत् क्षेत्रं दिनार्द्धेन, भानुर्भावयितुं क्षमः । दृश्यते तावतः क्षेत्रान्मण्डलेष्वखिलेव्वपि ॥ २५ ॥ यथा पञ्च सहस्राणि, योजनानां शतद्वयम् । एकपंचाशमेकोनत्रिंशदेशाश्च षष्टिजाः ॥ २६ ॥ मुहूर्त्तगतिरेषा या, प्रोक्ताऽभ्यन्तरमण्डले । गुण्यते सा दिनार्द्धन, मुहूर्त्तनवकात्मना ॥२७॥ सप्तचत्वारिंशदेवं, सहस्राणि शतद्वयम् । त्रिषष्टिश्व योजनानां षष्ट्यंशा एकविंशतिः ॥ २८ ॥ उद्गच्छन्नियतः क्षेत्राद्भानुरस्त onal For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy