________________
लोकप्रकाशे २० सर्गे
॥ २३४ ॥
Jain Education Inte
कानि परिरयेऽष्टादश २ योजनानि परिवर्द्धयता तावद्वक्तव्यं यावत्सर्वबाह्यमण्डलं एकं योजनशतसहस्रं षटू | शतानि षष्ट्यधिकानि आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि किञ्चिदूनानि परिरय" इति । अत्र च यद्यपि प्रतिपरिक्षेपं अष्टादश २ वृद्धौ त्र्यशीत्यधिकशतस्या|ष्टादशभिर्गुणने चतुर्नवत्यधिकानि द्वात्रिंशच्छतानि भवन्ति, एतेषां च सैकोननवतिपञ्चदशसहस्राधिकलक्षत्रयरूपप्रथममण्डलपरिक्षेपेण सह योगे सर्व बाह्यमण्डलपरिरयस्तिस्रो लक्षा अष्टादश सहस्रास्त्रिशती व्यशीत्युत्तरा भवन्ति परं तु प्रागुक्तानि सप्तदश योजनानि साधिकयोजनसत्काष्टात्रिंशदेकषष्टिभागाधिकानि प्रतिपरिरयं वृद्धिरिति विभाव्यैव न्यूनपञ्चदशाधिकशतत्र ययुक्ताष्टादशसहस्राधिकलक्षत्रयरूपः सर्वबाह्यमण्डलपरिधिरुक्त इति संभाव्यते, यद्यप्यत्रापि उपरितनं शतत्रयं चतुर्द्दशोत्तरमेव भवति तथापि उपरितनानां अष्टात्रिंशतो भागानां साधिकत्वात् न्यूनानि पञ्चदशैव विवक्षितानीति सम्यग्विभावनीयं गणितज्ञैः ४ ॥ एवं कृता मण्डलानां, परिक्षेपप्ररूपणा । गतिं प्रतिमुहूर्त्त च, ब्रूमहे प्रतिमण्डलम् ॥ ८ ॥ एकैकं मण्डलं ह्येक| मार्त्तण्डेन समाप्यते । द्वाभ्यां किलाहोरात्राभ्यां मुहर्त्ताः षष्टिरेतयोः ॥ ९ ॥ ततः षष्ट्या विभज्यन्ते, परि| क्षेपाः खकखकाः । एवं सर्वमण्डलानां, मुहूर्त्तगतिराप्यते ॥ २१० ॥ एवं च- संक्रम्य चरतः सूर्यो, सर्वान्तर्मण्डले यदा । तदा प्रत्येकमेकैकमुहूर्त्तेऽसौ गतिस्तयोः ॥ ११ ॥ नूनं पञ्च सहस्राणि योजनानां शतद्वयम् । एकपञ्चा | शमे कोनत्रिशदंशाश्च षष्टिजाः ॥ १२ ॥ द्वितीयादिमण्डलेष्वप्येवं परिरयैः स्वकैः । मुहूर्त्तगतिरानेया, षष्ट्या
For Private & Personal Use Only
मण्डल - त्राणां प रिधिः ४
२०
२५
॥ २३४ ॥
२८
Finelibrary.org