SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Jain Education " लम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ९३ ॥ परिधिस्तु यथाऽऽम्नायमस्य लक्षत्रयं युतम् । सहस्रैः पञ्चदशभिर्नवाशीतिश्च साधिका ॥ ९४ ॥ सषष्टियोजनशतत्रयं यत्प्रागपाकृतम् । तस्य वा परिधिः कार्यः, पृथगीदृग्विधस्तु सः ॥ ९५ ॥ एकादश शतान्यष्टत्रिंशान्येनं विशोधयेत् । जंबूद्वीपस्य परिधेः स्यादप्येवं यथोदितः ॥ ९६ ॥ अथैकतः स्थितं सर्वान्तरानन्तरमण्डलम् । अष्टचत्वारिंशदंशान् सर्वान्तमण्डलात्मकान् ॥९७॥ द्वे योजने च त्यक्त्वार्वाकू, परतोऽप्येवमेव तत् । एवं पञ्चत्रिंशदेशं, भवेद्योजनपञ्चकम् ॥ ९८ ॥ ततोऽर्कयुग्मान्तरवर्धन्ते प्रतिमण्डलम् । योजनानि पञ्चपञ्चत्रिंशदंशाश्च विस्तृतौ ॥ ९९ ॥ ततस्तेषां परिक्षेपा, ज्ञेया व्यासानुसारतः । सपञ्चत्रिंशदंशस्य, योजनपञ्चकस्य वा ॥ २०० ॥ परिक्षेपः पृथक्कार्य, ईदृग्रूपः स जायते । साधिकाष्टात्रिंशदंशयुक् सप्तदशयोजनी ॥ १ ॥ अष्टादश योजनानि, परं तु व्यवहारतः । संपूर्णानि विवक्ष्यन्ते, ततोऽष्टादशयोजनीम् ॥ २ ॥ प्राच्यप्राच्यमण्डलस्य, परिक्षेपे नियोजयेत् । ततोऽय्याग्र्यमण्डलस्य, परिक्षेपमितिर्भवेत् ॥ ३ ॥ एवं वृद्धिः परिक्षेपे, यावच्चरममण्डलम् । ततो यथा वृद्धिहानिरासर्वान्तरमण्डलम् ॥ ४ ॥ एवं च परिधिः सर्वान्तरानन्तरमण्डले । लक्षत्रयं पञ्चदश, सहस्राः सप्तयुक् शतम् ॥ ५ ॥ तातयीके मण्डले च, सर्वाभ्यन्तरमण्डलात् । लक्षास्तिस्रः पञ्चदश, सहस्राः सप्तयुक्र शतम् ॥ ६ ॥ लक्षास्तिस्रोऽष्टादशैव, सहस्रास्त्रिशती तथा । युक्तोनैः पञ्चदशभिः सर्वान्त्यपरिधिर्भवेत् ॥ ७ ॥ तथाहुः श्रीमलयगिरिपादाः क्षेत्रविचारवृहद्वृत्तौ "एवं मण्डले मण्डले आयामविष्कम्भयोः पञ्च पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाधि ional For Private & Personal Use Only ५ १०. १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy