________________
लोकप्रकाशे २० सर्गे
॥ २३३ ॥
Jain Education
स्तात्समभूतलम् । सहस्रं च योजनानामधोग्रामास्ततोऽप्यधः ॥ ७९ ॥ तांश्च यावत्तापयतः प्रसरन्ति करा - स्ततः । विवस्वतोर्योजनानामष्टादश शतान्यधः ॥ ८० ॥ सप्तचत्वारिंशदध, सहस्राणि शतद्वयम् । त्रिषष्टिश्च योजनानां षष्ट्यंशा एकविंशतिः ॥ ८१ ॥ करप्रसार एतावान्, सर्वान्तर्मण्डलेऽर्कयोः । पूर्वतोऽपरतश्चाथ, दक्षिणोत्तरयोर्भुवे ॥ ८२ ॥ सहस्राणि पञ्चचत्वारिंशत्स्वर्गिगिरेर्दिशि । साशीतियोजनशतोनान्यथान्धेर्दिशि ब्रुवे ॥ ८३ ॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशं शतत्रयम् । योजनत्र्यंशयुग् वाढ, द्वीपेऽशीतियुतं शतम् ॥ ८४ ॥ सर्वबाह्यमण्डले तु, चरतोरुष्णरोचिषोः । करप्रसार एतावान्, स्यात्पूर्वापरयोर्दिशोः ॥ ८५ ॥ एकत्रिंशत्सहत्राणि, शतान्यष्टौ तथोपरि । एकत्रिंशद्योजनानि, त्रिंशदेशाश्च षष्टिजाः ॥ ८६ ॥ मेरोर्दिशि योजनानां, वा त्रिंशं शतत्रयम् । द्वीपे च पश्चचत्वारिंशत्सहस्रास्ततः परम् ॥ ८७ ॥ त्रयस्त्रिंशत्सहस्राणि, सत्र्यंशं योजनत्रयम् । करप्रसारो भान्वोः स्याल्लवणान्धौ शिखादिशि ॥ ८८ ॥ ऊर्द्ध तु योजनशतं, तुल्यं सर्वत्र पूर्व - वत् । अष्टादश योजनानां शतान्यधस्तथैव च ॥ ८९ ॥ इति क्षेत्रविभागेन दिनरात्रिमानप्ररूपणा, तत्प्रसङ्गादातपतमः संस्थानादिप्ररूपणा च ३ ॥
कृता क्षेत्रविभागेन, दिनरात्रिप्ररूपणा । परिक्षेपमिति ब्रूमः, साम्प्रतं प्रतिमण्डलम् ॥ ९० ॥ वगाह्योभयतो द्वीपे सर्वान्तर्मण्डलं स्थितम् । साशीतियोजनशतं द्विघ्नं कार्यमिदं ततः ॥ ९१ ॥ सषष्टियोजनशतत्रयं जातमिदं पुनः । द्वीपव्यासाल्लक्षरूपाद्विशोध्यते ततः स्थितम् ॥ ९२ ॥ विष्कम्भायामतो नूनं, सर्वाभ्यन्तरमण्ड
tional
For Private & Personal Use Only
' मण्डलक्षेत्राणां प रिधिः ४
२०
२५
॥ २३३ ॥
२८
jainelibrary.org