________________
Jain Educatio
षट्शती । तद्दशांशे त्रिगुणिते, ध्वान्तव्यासोऽप्यसौ तदा ॥ ७१ ॥ सहस्राः पञ्चनवतिश्चत्वार्येव शतानि च । चतुर्नवतियुक्तानि, त्रिंशदेशाश्च षष्टिजाः ॥ ७२ ॥ बाह्यान्तर्मण्डलस्थार्कतापक्षेत्रानुसारतः । वृद्धिहानिव्यतीहारः, प्रकाशतमसोर्भवेत् ॥ ७३ ॥ सामीप्याद्दीप्रतेजस्त्वात्सर्वान्तर्मण्डलेऽर्कयोः । दिनातपक्षेत्र वृद्धिर्धर्म|स्तीत्रस्तमोऽल्पता ॥ ७४ ॥ मन्दतेजस्तया दूरतया च बाह्यमण्डले । निशातमः क्षेत्रवृद्धिस्तापक्षेत्राल्पता दिने ॥ ७५ ॥ यत्तु - जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वान्तर्मण्डलस्थे रवौ समुद्रदिशि तापक्षेत्राविष्कम्भः चतुर्नवतिय जनस हस्राणि अष्टौ शतानि अष्टषष्ट्यधिकानि चतुरश्च दशभागान् योजनस्योक्तः, तथा ध्वान्तविष्कम्भश्च त्रिषष्टियजनसहस्राणि दे च पञ्चचत्वारिंशदधिके योजनशते षट् च दशभागा योजनस्य, अयमेव च सर्वबाह्यमण्डलस्थे रवौ तापक्षेत्रध्वान्तक्षेत्र योर्विपर्ययेण विष्कम्भ उक्तः, स तु जम्बूद्वीपपरिधेरेव दशांशद्वयत्रयकल्पनयेति व्यामोहो न विधेयः, यत्तु तत्र सर्वान्तर्मण्डले उभयतः समुदितं द्वीपसंबन्धि षष्ट्यधिकं योजनशतत्रयं न्यूनतया न विवक्षितं यच सर्वबाह्यमण्डले उभयतः समुदितानि समुद्रसंबन्धीनि षष्ट्यधिकानि षड् योजनशतान्यधिकतया न विवक्षितानि तत्राविवक्षैव बीजमित्यादिकमर्थत उपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञसिवृत्तेरवसेयं । तापक्षेत्रस्य च व्यासो, यावान् स्याद्यत्र मण्डले । करप्रसारस्तस्यार्द्धे, पूर्वतोऽपरतोऽपि च ॥ ७६ ॥ मेरोर्दिशि तु मेर्वर्द्ध, यावन्तेजः प्रसर्पति । पाथोधिदिशि पाथोधेः, षङ्गागं यावदर्कयोः ॥ ७७ ॥ करप्र सार ऊर्द्धतु, योजनानां शतं मतः । यत्तापयत एतावदुर्द्ध निजविमानतः ॥ ७८ ॥ शतेष्वष्टासु सूर्याभ्यामघ
tional
For Private & Personal Use Only
१०
१४
w.jainelibrary.org