SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Jain Education ॥ ११ ॥ तथाहि - पूर्वापर विदेहेषु, भानोरस्तात्रिभिः क्षणैः । स्याद् भारतैरवतयोस्तरणेरुदयः खलु ॥ १२॥ भारतैरवतयोश्च भानोरस्तादनन्तरम् । त्रिभिः क्षणैः स्यात्प्रत्यूषं पूर्वापरविदेहयोः ॥ १३ ॥ क्षणशब्दश्चात्र प्रकरणे मुहूर्त्तवाचीति ध्येयं ॥ तथा च भवेद्विदेहयोराचं, यन्मुहूर्त्तत्रयं निशः । स्याद्भारतैरवतयोस्तदेवान्त्यं क्षणत्रयम् ॥ १४ ॥ स्याद्भारतैरवतयोर्यन्निशोऽन्त्यं क्षणत्रयम् । भवेद्विदेहयो रात्रेस्तदेवान्त्यं क्षणत्रयम् ॥ १५ ॥ इह च प्राविदेहादिक्षेत्राह्नानोपलक्षिताः । पूर्वादिक्षेत्र दिग्मध्यभागा ज्ञेया विवेकिभिः ॥ १६ ॥ तेष्विदं कालनैयत्यं, | ज्ञेयमन्यत्र तु स्फुटम् । भाव्यमस्यानुसारेणार्कोदयास्तविभावनात् ॥ १७ ॥ एवंच-अपाच्युदीच्योः प्रत्यूषान्मुहर्त्तत्रितये गते । लघोर्निशायाः प्रारम्भः स्यात्पूर्वापरयोर्दिशोः ॥ १८ ॥ अपराह्नात्रिमुहर्त्त्या, शेषायां चान| योर्दिशोः । प्रत्यक प्राक् च निशान्तः स्योदंव सर्वत्र भाव्यताम् ॥ १९ ॥ इदं गुरुदिने गुर्व्या, रात्रौ त्वस्याः क्षणत्रयम् । गते शेषे च कल्पाहः प्रान्तायुक्तदिशोः क्रमात् ॥ २० ॥ निशां चाह्नां मध्यमानामप्येवं स्तो यथोचितम् । विश्लेषशेषार्द्धशेषे, याते चादिपरिक्षयौ ॥ २१ ॥ इति कृता वर्षमध्ये दिनरात्रिप्रमाणप्ररूपणा २ ॥ मण्डलस्याभ्यन्तरस्य, दशात्र परिधेलवाः । कल्प्यास्तत्रोद्योतयेत्तांस्त्रीनेकोऽक दिने गुरौ ॥ २२ ॥ श्रींश्च तत्संमुखानन्यः, षट्वंशेषु दिनं ततः । मध्ये तयोर्लवौ द्वौ द्वौ, रजनीति लवा दश ॥ २३ ॥ जघन्येऽहनि च द्वौ द्वौ भागौ दीपयतो रवी । दिनं चतुर्षु भागेषु, निशा षट्सु लवेष्वतः ॥ २४ ॥ प्रकाशक्षेत्रतश्चैवं दशांशौ दक्षिणायने । हीयेते कमतस्तौ च वर्धते उत्तरायणे ॥ २५ ॥ अत्रोपपत्तिः - द्वाभ्यां किलाहोरात्राभ्यामेके For Private & Personal Use Only १० १४ Jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy