SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे क्षेत्र सर्गः १२ ॥१३९॥ Jain Educatio करकर्णिकाम् । गम्भीरखात परिखाप्राकारालङ्कृतानि च ॥ ९४ ॥ शतघ्न्यादिमहायन्त्रजटिलानि समन्ततः । दुष्प्रवेशान्ययोध्यानि, गुप्तानि श्रीभृतानि च ॥ ९५ ॥ उल्लासिपूर्णकलशतोरणद्वारवन्ति च । अनारतं रक्षितानि, दण्डिभिः किङ्करामरैः ॥ ९६ ॥ परिष्कृतानि कुसुमैः, पञ्चवर्णैः सुगन्धिभिः । काकतुण्डतुरुष्कादिधूपसौरभ्यवन्ति च ॥ ९७ ॥ जम्बूद्वीपोपमानानि विष्कम्भायाममानतः । उत्कृष्टानि विदेहानुकारीणि मध्यमान्यपि ॥ ९८ ॥ अपि यान्यल्पमानानि, निरूपितानि तान्यपि । भरतक्षेत्रसदृशान्येतेषु च वसन्त्यमी ॥ ९९ ॥ स्थापना । अष्टधा व्यन्तरा देवा, महासमृद्धिशालिनः । पिशाचा भूतयक्षाख्या, राक्षसाः किन्नरा |अपि ॥ २००॥ किंपुरुषा महोरगा, गन्धर्वाश्च तथा परे । सर्वेऽप्येते दाक्षिणात्योदीच्यभेदात्स्मृता द्विधा ॥ २०९ ॥ सर्वेऽप्येते ऽतिसुभगाः, सुरूपाः सौम्यदर्शनाः । हस्तग्रीवादिषु रत्नमयभूषणभूषिताः ॥ २॥ गान्धर्वगीतरतयः, कौतुकाक्षिप्तचेतसः । प्रियक्रीडा हास्यलास्या, अनवस्थितचेतसः ॥ ३ ॥ विकुर्वितस्फारवनमालामुकुटकुण्डलाः । खैरोल्लापाः स्वैररूपधारिणः स्वैरचारिणः ॥ ४ ॥ नानावर्णवस्त्र नानादेशनेपथ्यधारिणः । मुद्गरासिकन्तशक्तिचापादिव्यग्रपाणयः ॥ ५ ॥ तत्र यक्षाः पिशाचाश्च गन्धर्वाश्च महोरगाः । किञ्चित्कृष्णाः किम्पुरुषा, राक्षसाश्च सितत्विषः ॥ ६ ॥ किन्नराः श्यामभासोऽपि किञ्चिन्नीलत्विषो मताः । भूताः पुनः कालवर्णाः, कज्जलैर्घटिता इव ॥ ७ ॥ कदम्बः सुलसश्चैव, वटः खट्वाङ्गमेव च । अशोकश्चम्पको नागस्तुम्बरुश्च यथाक्रमम् ॥ ८ ॥ भवन्ति चिह्नान्यष्टानां, पिशाचादिसुधा सुजाम् । ध्वजेषु तत्र खट्वाङ्ग, विना सर्वेऽपि पादपाः ॥ ९ ॥ ational For Private & Personal Use Only वनोदध्याद्याः व्यन्त राः २० २५ ॥१३९॥ २८ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy