SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्त्यानाज्यघनपिण्डवत् ॥ ७८ ॥ योजनानां सहस्राणि, विंशतिः परिकीर्तितम् । घनोदधेमध्यभागे, वाहल्यं क्रमतस्ततः॥७९॥ प्रदेशहान्याऽसौ हीयमानोऽत्यन्ततनूभवन् । पृथ्वी वलयाकारण, स्वयमावृत्त्य तिष्ठति ॥८॥ युग्मं ॥ वलयस्यास्य विष्कम्भः, प्रज्ञप्तो योजनानि षट । उच्चत्वं तु वसुमतीबाहल्यस्यानुसारतः॥८॥ असौ घनोदधिरपि, घनवाते प्रतिष्ठितः। असंख्यानि योजनानि, मध्ये तस्यापि पुष्टता ॥८२॥ प्रदेशहान्या तनुतां, भजमानो घनोदधेः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८३॥ अस्यापि वलयस्यैवं, मानमाद्यैरुदीरितम् । चतुष्टयी योजनानां, सार्दोच्चत्वं तु पूर्ववत् ॥८४॥ घनवातोऽपि सततं, तनुवाते प्रतिष्ठितः। अस्यापि मध्ये बाहल्यमसंख्यघ्नं घनानिलात् ॥ ८५॥ ततस्तनूभवन्नेष, घनवातस्य सर्वतः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८६॥ तनुवातस्य वलये, विष्कम्भः परिकीर्तितः। एक योजनमध्यर्द्धमुचत्वं पुनरुक्तवत् ।। ८७॥ तनुवातोऽप्यसो तस्थावाधारेण विहायसः। तच प्रतिष्ठितं खस्मिन्नसंख्ययोजनोन्मितम् ॥८८॥ सप्तखपि महीष्वेवं, घनोदध्यायो मताः। वलयानां तु विष्कम्भो, यथास्थानं प्रवक्ष्यते ॥ ८९॥ भाति भूः खसमश्रेणिस्थायिभिर्वलयस्त्रिभिः। पूर्णेन्दुवत्परिधिभिः, सुधाकुण्डमिवोरगैः॥९०॥ स्थापना । भवत्येवमलोकश्च, घर्मापर्यन्तभागतः। योजनैर्दशभिभ्यिामतिरिक्तैः समन्ततः॥९१ ॥ __ अर्थतस्यां रत्नकाण्डस्याधस्तनं तथोर्ध्वगम् । विमुच्य शतमेकैक, मध्येऽष्टशतयोजने ॥ ९२ ॥ असंख्येयानि भौमेयनगराण्यासते सदा । बहिर्विभागे वृत्तानि, चतुरस्राणि चान्तरे ॥ ९३ ॥ अधोभागेऽनुकुर्वन्ति, चारुपु '700232002020120200 SEPERCoe Jain Education in a l For Private & Personal Use Only ( ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy