________________
लोकप्रकाशे क्षेत्रलोके सगे:१२
॥१३८॥
eeeee
यत॥६॥ स्थापना। अधो महत्तमं छत्रं, तस्योपरि ततो लघु । छत्राणामिति सप्तानां स्थापितानां समा इमाः लोकमानं ॥४॥ स्यातामायामविष्कम्भौ, सप्तम्याः सप्त रजवः। षष्ठ्याः षट् पञ्च पञ्चम्यास्ताश्चतस्रोऽञ्जनाभुवः॥६५॥ अधोलोकश्च - रजुत्रयं तृतीयाया, द्वितीयायास्तु तद्वयम् । स्यातामायामविष्कम्भौ, रजुरेकादिमक्षितेः ॥६६॥ रत्नप्रभाया बाहल्यं, योजनानां प्रकीर्तितम् । एक लक्षं सहस्राणामशीत्या साधिकं 'किल ॥६७॥ तचैवं-सहस्राणि षोडशाद्यं, खरकाण्डं द्वितीयकम् । सहस्राः पङ्कबहुलं, चतुरशीतिरीरितम् ॥ ६८॥ तृतीयं जलबहुलं, स्थादशीतिसहस्रकम् । ततोऽशीतिसहस्राव्यं, लक्षं पिण्डोऽग्रिमक्षितेः ॥६९॥ खरकाण्डे च काण्डानि, षोडशोक्तानि तात्त्विकैः । प्रत्येकमेषां बाहल्यं, योजनानां सहस्रकम् ॥७०॥ तत्रादिमं रत्नकाण्डं १, वज्रकाण्ड | २ द्वितीयकम् । वैडूर्य ३ लोहिताख्यं ४ च, मसारगल्ल ५ संज्ञकम् ॥ ७१॥ हंसगर्भ६ च पुलकं ७, सौगन्धिकाभिधं ८ परम् । ज्योतीरस ९ मञ्जनं १० चाञ्जनपुलक ११ संज्ञकम् ॥७२॥ रजतं १२ जातरूपं १३ च, अङ्क १४ स्फटिकसंज्ञकम् १५। रिष्ठकाण्डं चेत्यमूनि, यथार्थाख्यान्यनुक्रमात् ॥ ७३ ॥ स्थापना। एतेषु तत्तज्जातीयरत्नबाहुल्ययोगतः । रत्नप्रभेति गोत्रेण, पृथ्वीयं परिकीर्त्यते ॥ ७४ ॥ तिर्यगलोके भवन्त्यस्या, योजनानां शता नव । ऊर्ध्वगाः (शतानि च । नवोर्चे) शेषपिण्डस्तु, स्यादधोलोकसंस्थितः॥७॥ चतुर्भिश्च 'किला-|| ॥१३८॥ धारभूमिरेषा प्रतिष्ठिता । घनोदधिधनवाततनुवातमरुत्पथैः॥ ७६॥ त्रिभिश्च वलयरेषा, परितः परिवेष्टिता । घनोदधिधनवाततनुवातात्मकैः क्रमात् ॥ ७७॥ तत्र प्रतिष्ठिता भूमिराधारेण घनोदधेः। महाकटाहविन्यस्त-I..२८
REEG
२५
Jain Education
a
l
For Private & Personel Use Only
Molainelibrary.org
का