________________
तस्मिन् समये, कस्यचिद्व्यवहारिणः । पुत्रो वर्षसहस्रायुर्जातोऽसौ वढते क्रमात् ॥४९॥ क्रमादथास्य पितरौ, विपन्नावायुषः क्षयात् । वायुः समापयामास, तत एषोऽप्यनुक्रमात् ॥५०॥ कालेन कियता चास्य, अस्थिमज्जाः क्षयं गताः। लोकान्तं न च ते देवाः, प्रापुः श्रान्ता इवाश्रयम् ॥५१॥ अस्य वंशः सप्तमोऽपि, क्रमे-15 गैवं क्षयं गतः। कालेन तस्य नामादि, समस्तमस्तमीयिवत् ॥५२॥ अथास्मिन् समये कश्चित्, सर्वज्ञं यदि।। पृच्छति । क्षेत्रं तेषां किमगतम्, गतं वा बहुलं ? प्रभो!॥५३॥ तदादिशेजिनस्तेषां, गतं बह्वगतं मितम् । गतादन्यदसोऽशे, संख्यनमगताच तत् ॥५४॥ संवर्तितचतुरस्रीकृतस्य लोकस्य मानमेतदिति । संभवति यथावस्थितलोके तु तस्य वैषम्यात् ॥५५॥ आर्या । इति भगवतीशतक ११ उद्देशे १०।
वसन्ति तत्राधोलोके, भवनाधिपनारकाः। तिर्यक् च व्यन्तरनराब्धिद्वीपज्योतिषादयः॥५६॥ वैमानिकाः सुराः सिद्धा, ऊर्ध्वलोके वसन्ति च । इति सामान्यतो लोकखरूपमिह वर्णितम् ॥५७॥ अथ त्रयाणां लोकानां, प्रत्येकं तन्निरूप्यते । तत्रादौ कथ्यते किश्चिद्धोलोको विशेषतः॥५८॥ पृथिव्यस्तत्र निर्दिष्टाः, सप्त सप्तभयापहै। गोत्रतो नामतश्चैवं, गोत्रभित्प्रणतक्रमैः॥५९॥ आद्या रत्नप्रभा पृथ्वी, द्वितीया शर्कराप्रभा। ततः परा च पृथिवी, तृतीया वालुकाप्रभा ॥६०॥ पङ्कप्रभा चतुर्थी स्यामप्रभा च पञ्चमी । षष्ठी तमःप्रभा सप्तमी स्यात्त
मस्तमःप्रभा ॥१॥ अन्वर्थजानि सप्तानां, गोत्राण्याहुरमूनि वै। रत्नादीनां प्रभायोगात्मथितानि तथा तथा KALP२॥ धर्मा १ वंशा २ तथा शैलां ३ ऽजना ४ रिष्ठा ५ मघा ६ तथा । माघवती ७ति नामानि, निरन्वर्थान्यमूनि
2009397
N१४
Jain Education
a
l
For Private Personal Use Only
emainelibrary.org