SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ खो. प्र. ३९ Jain Educatio कर्त्तव्या मण्डलचारप्ररूपणा च संप्रति । सप्तानुयोगद्वाराणि तत्राहुस्तत्त्ववेदिनः ॥ ६२ ॥ प्रत्यन्दं मण्डलाचारसंख्याप्ररूपणा रवेः ९ । वर्षान्तः प्रत्यहं रात्रिदिनमानप्ररूपणा २ ॥ ६३ ॥ मण्डले मण्डले क्षेत्रविभागेनाप्यहर्निशोः । प्ररूपणा ३ मण्डलानां, परिक्षेपप्ररूपणम् ४ ॥ ६४ ॥ प्रतिमण्डल मुहूर्त्तगतिमानप्ररूपणा ५ । मण्डले | मण्डले दृष्टिपथप्राप्तिप्ररूपणा ६ ॥ ६५ ॥ प्ररूपणा सप्तमी च ख्याताऽर्द्धमण्डलस्थितेः ७ । अनुयोगद्वारमथ, प्रथमं परितन्यते ॥ ६६ ॥ 1 arasa यदा सर्वान्तरानन्तरमण्डले । सूर्यसंवत्सरस्याहोरात्रोऽयं प्रथमस्तदा ॥ ६७ ॥ त्र्यशीतियुक्शततमे, द्वैतीयीकान्तु मण्डलात् । परिपाठ्या सर्वबाह्यमण्डले तौ यदागतौ ॥६८॥ संपूर्णाः सूर्यवर्षस्य, षण्मासाः प्रथमे तदा । एतदेव च वर्षेऽस्मिन, दक्षिणायनमुच्यते ॥ ६९ ॥ युग्मम् । सर्वबाह्यार्वाक्तनेऽथ, मण्डलेऽक पदा पुनः । तदोत्तरायणस्याहोरात्रोऽयं प्रथमो भवेत् ॥ ७० ॥ त्र्यशीतियुकशततमे, बाह्यार्वाचीनमण्डलात् ! यदा क्रमाद्रवी प्राप्तौ सर्वाभ्यन्तरमण्डले ॥ ७१ ॥ पूर्णा द्वितीयाः षण्मासाः पूर्ण तथोत्तरायणम् । पूर्ण वर्ष सषट्षष्ट्यहोरात्रत्रिशतात्मकम् ॥ ७२ ॥ युग्मम् । एवं च सर्वान्तर सर्वबाह्यमण्डलयोः किलैकशः । प्रत्यब्दं सूर्यचारः स्यात्सर्वेष्वन्येषु च द्विशः ॥ ७३ ॥ तथा चागमः - "जआ णं सूरिए सङ्घभंतराओ मण्डलाओ सङ्घबाहिरं मंडलं उबसंकमित्ता चारं चरह सङ्घबाहिराओ य मंडलाओ सक्कभंतरमंडलं उवसंकमित्ता चारं चरइ एस णं अद्धा केवहणं राईदियग्गेणं आहियत्ति वएज्जा ?, तिन्नि छावडे राईदियसए राईदियग्गेणं आहियत्ति वएजा, tional For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy