________________
लोकप्रकाशे २० सर्गे
॥ २२८ ॥
Jain Education Inte
॥ ४७ ॥ इति मेरुं प्रतीत्य प्रतिमण्डलमबाधा ॥ यदाऽकौं चरतः प्राप्य, सर्वाभ्यन्तरमण्डलम् । तदा सूर्यस्य सूर्यस्य स्यात्परस्परमन्तरम् ॥ ४८ ॥ सहस्रा नवनवतिश्चत्वारिंशा च षट्शती । द्वीपव्यासादुभयतो मण्डलक्षेत्र ( १८० ) कर्षणात् ॥ ४९ ॥ सर्वान्तरानन्तरं तौ, द्वितीयं मण्डलं यदा । उपसंक्रम्य चरतस्तदा मिथोऽन्तरं तयोः ॥ ५० ॥ सहस्रा नवनवतिर्योजनानां च षट्शती । पञ्चचत्वारिंशदाढ्या, | पञ्चत्रिंशत्तथा लवाः ॥ ५१ ॥ तथाह्येकोऽप्यर्क इह, द्वितीयमण्डले व्रजन् । साष्टाचत्वारिंशदंशे, द्वे योजने व्यतिक्रमेत् ॥ ५२ ॥ एवं द्वितीयोऽपि ततो वर्द्धन्ते प्रतिमण्डलम् । योजनानि पश्च पञ्चत्रिंशद्भागा मिथोऽन्तरे ॥ ५३ ॥ एवं यावत् सर्वषाह्यमण्डले चरतस्तदा । तयोर्मिथोऽन्तरं लक्षं, सषष्टीनि शतानि षट् ॥ ५४ ॥ अन्तर्विशन्तौ तौ सर्वबाह्यमण्डलतः पुनः । अर्वाचीने सर्वबाह्याद्वर्त्तेते मण्डले यदा ॥ ५५ ॥ तदाऽर्कयोरन्तरं स्याल्लक्षमेकं शतानि षट् । चतुष्पञ्चाशानि लवाः, षड्विंशतिः पुरोदिताः ॥ ५६ ॥ एवमन्तः प्रविशतः प्रतिमण्डलमन्तरम् । पञ्चभिर्योजनैः पञ्चत्रिशताऽशैश्च हीयते ॥ ५७ ॥ एवं पूर्वोदितमेव, सर्वाभ्यन्तरमण्डले । मिथोऽन्तरं द्वयोर्भान्वोः पुनस्तदवशिष्यते ( ९९६४० ) ॥ ५८ ॥ इति मण्डले २ सूर्ययोः परस्परमबाधा ॥ द्वे द्वे च योजने सूर्यमण्डलानां मिथोऽन्तरम् । कथमेतदिति श्रोतुं श्रद्धा चेच्छूयतां तदा ॥ ५९ ॥ सूर्यमण्डलविष्कम्भे, स्फुरच्चतुरशीतिना । शतेन गुणिते त्यक्ते, मण्डलक्षेत्रविस्तृतेः ॥ ६० ॥ शेषा स्थिता योजनानां, सषट्षष्टिः शतत्रयी । सञ्यशीतिशतेनास्यां, भक्तायामेतद्न्तरम् ॥ ६१ ॥ इति मण्डलान्तरप्ररूपणा ॥
For Private & Personal Use Only
मण्डलान्तरं
२०
२५
॥ २२८ ॥
२८
Inelibrary.org