________________
339,929
वाच्याऽथ मण्डलाबाधा, त्रिविधा सा निरूपिता । ओघतो मण्डलक्षेत्राबाधाऽधिकृत्य मन्दरम् ॥ ३५ ॥ मेरुमेवाधिकृत्यान्या चाबाधा प्रतिमण्डलम् । मण्डले मण्डलेऽबाधा, तृतीया त्वर्कयोर्मिथः ॥ ३६ ॥ सहस्राणि चतुश्चत्वारिंशदष्टौ शतानि च । विंशानि मेरुतो दूरे, मण्डलक्षेत्र मोघतः ॥३७॥ तथा हि जम्बूद्वीपान्तः, सर्वाभ्यन्तरमण्डलम् । साशीतियोजनशतं स्थितं वगाह्य सर्वतः ॥ ३८ ॥ ततश्च द्वीपविष्कम्भाल्लक्षरूपाद्वियोज्यते । साशीतियोजनशतं, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ३९ ॥ सहस्रा नवनवतिश्चत्वारिंशा च षट्शती । ईदृग्रूपः स्थितो राशिरस्मादप्यपनीयते ॥ ४० ॥ सहस्राणि दश व्यासो, मेरोस्ततोऽवशिष्यते । नवाशीतिः सहस्राणि चत्वारिंशा च षट्शती ॥ ४१ ॥ एतावन्मण्डलक्षेत्रे, मेव्यासो न यद्यपि । तथापि भूतलगतो, व्यवहारादिहोच्यते ॥ ४२ ॥ तथाहुः श्रीमलयगिरिपादा बृहत् क्षेत्रसमासवृत्तौ - " यद्यपि च नाम मण्डलक्षेत्रे मेरोर्विष्कम्भो दशयोजनसहत्रात्मको न लभ्यते, किंतु न्यूनः तथापि धरणितले दशयोजन सहस्रप्रमाणः प्राप्यते इति तत्रापि स तावान् व्यवहारतो विवक्ष्यते" अस्मिनाशावर्द्धिते च संपद्यते यथोदितम् । ओघतो मण्डलक्षेत्रान्तरं मेरुव्यपेक्षया ॥ ४३ ॥ इति मेरुं प्रतीत्य मण्डलक्षेत्राबाधा ॥ एतदेवान्तरं मेरोः, सर्वान्तर्मण्डलस्य च । अतः परं यदपरं, नास्ति मण्डलमान्तरम् ॥ ४४ ॥ सर्वान्तरानन्तरे तु द्वितीयमण्डले ततः । साष्टाचत्वारिंशदंशं वर्द्धते योजनद्वयम् ॥ ४५ ॥ इत्थं प्राग्मण्डलादग्र्यमण्डले योजनद्वयम् । साष्टाचत्वारिंशदंशमबाधायां विवर्द्धते ॥ ४६ ॥ एवं यावत् सर्वबाह्यमण्डलं मेरुतः स्थितम् । सहस्रैः पञ्चचत्वारिंशता त्रिंशैस्त्रिभिः शतैः
Jain Educatinational
For Private & Personal Use Only
१४
wwww.jainelibrary.org