SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २० सर्गे ॥ २२७ ॥ Jain Education तद्विदः ॥ २५ ॥ एवं प्रत्यग्विदेहानामपेक्षया सुमेरुतः । नैर्ऋतस्थायिनिषधे, विज्ञेया मण्डलावली ॥ २६ ॥ किंच- विदिग्गताभ्यां श्रेणीभ्यां, मण्डलाल्यौ स्थिते इमे । औदयिकक्षेत्रपरावर्त्तादयनयोर्द्वयोः ॥२७॥ कान्तिहान्याऽयने याम्येऽवगर्वागागती रवी । दृश्येते कान्तिवृद्ध्या च दूरतोऽप्युत्तरायणे ॥ २८ ॥ एवं हरिवर्षरम्यकजीवाकोट्योरपि भावना || तथाहुर्जम्बूद्वीपप्रज्ञप्तिसूत्रे "जंबूद्दीवे णं भंते । दीवे सूरिया उदीणपाईणमुग्गच्छ - पाईणदाहिणमागच्छति १ ( पूर्वविदेहापेक्षयेदं ) पाइणदाहिणमुग्गच्छ दाहिणपडीणमागच्छति २ ( भरतापेक्षयेदं) दाहिणपडीणमुग्गच्छ पडीणउदीण मागच्छंति ३ ( पश्चिमविदेहापेक्षयेदं ) पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छति ४ ( ऐरवतापेक्षयेदं ) या मण्डलानां विषयव्यवस्थेयमुदीरिता । भारतादिमध्यभागापेक्षया सा विभाव्यताम् ॥ २९ ॥ अन्यत्र तु खखभानूदयक्षेत्रे यथोदिता । मण्डलानां व्यवस्था सा, व्यक्त्या वक्तुं न शक्यते ॥ ३० ॥ एवं च येषामदृश्यो दृश्यत्वं, दृश्यो वा यात्यदृश्यताम् । यत्र तत्रैवोदयास्तौ, तेषां भानुमतो नृणाम् ॥ ३१ ॥ नन्वेवं सति सूर्यस्योदयास्तमयने खलु । स्यातामनियते वाढं, स्तां यदुक्तं पुरातनैः ॥३२॥ "जह जह समए समए पुरओ संचरइ भक्खरो गयणे । तह तह इओवि नियमा जायह रयणीइ भावत्थो ॥ १ ॥ एवं च सह नराणं उदयत्थमणाई होतऽनिययाई । सइ देसकालभेए कस्सइ किंचि वदिस्सए नियमा ॥ ३३ ॥ सइ चेव अ निद्दिट्ठो रुद्दमुहुत्तो कमेण सचेसिं । केसिंचीदाणिपिय विसयपमाणो रवी जेसिं ॥ ३४ ॥” भगवती सूत्रशत ५ प्रथमोद्देशकवृत्तौ ॥ इति सूर्यमण्डलसंख्या, प्रसङ्गात्तद्विषयव्यवस्था च ॥ ional For Private & Personal Use Only मण्डलान्तरं २० २५ ॥ २२७ ॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy