SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या, न्यूनाः पञ्चाशतोचैर्दधति रुचिरतां तारकाकोटिकोट्यः (१३३९५०) । प्रोद्यत्प्रखेदविन्द्रावलय इव निशि व्योमलक्ष्मीमृगाक्ष्याः, रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ॥ ७ ॥ ( स्रग्धरे ) कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत्, क्षेत्रस्तोकतयाऽवकाशघटना नैषां भवेदन्यथा । अन्ये कोटय एव तारकतते रौत्सेधिकैरङ्गुलैः, कोटाकोटिदशां भजन्ति घटिता इत्यू चिरे सूरयः ॥ ८ ॥ ( शार्दूल० ) तथा च संग्रहणीवृत्तौ - इह द्वे मते, तत्रैके कोटीनामेव कोटीकोटीति संज्ञान्तरं - नामान्तरं मन्यन्ते, क्षेत्रस्य स्तोकत्वेन, तथा पूर्वाचार्यप्रसिद्धेः अन्ये त्वाहुः - 'नगपुढवीमाणाई, मिणसु पमाणंगुलेणं तु' इति वचनात्ताराविमानानां स्वरूपेण कोटय एव सत्यो यदौत्सेधाङ्गुलेन सर्वतो मीयन्ते तदा कोटीको यो जायन्ते, तथोक्तं विशेषणवत्यां - कोडाकोडी सन्नंतरं तु मन्नंति केइ थोवतया । अन्ने उस्सेहंगुलमाणं काण ताराणं ॥ १||” जयति जगति जम्बुद्वीपभूमीधवोऽयं, सततमितरवाद्विीपसामन्तसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूलः, श्रयति कनकदण्डो यस्य राजध्वजत्वम् ॥ ९ ॥ (मालिनी) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाचुकेन्द्रान्तिषद्, राजश्रीतनयोऽतनिष्ट विनयः श्री तेजपालात्मजः । काव्यं यत् किल तत्र निश्चितजगत्तत्त्व प्रदीपोपमे सर्गः पूर्त्तिमितो युतोऽद्भुत गुणैरे कोनविंशः सुखम् ॥ २९० ॥ ॥ इति लोकप्रकाशे एकोनविंशः सर्गः समाप्तः ॥ Jain Educationational For Private & Personal Use Only esea १० १३ ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy