________________
लोकप्रकाशा ऐरावते च भरते, विजयेष्वखिलेषु च । प्रत्येक त्रित्रिसद्भावात्तीर्थानां झत्तरं शतम् ॥ १५॥ श्रेण्यश्चतस्रः जम्बू० १९ सर्गे प्रत्येकं, वैताख्येषु गुहाद्वयम् । श्रेण्यः शतं स्युः षट्त्रिंशमष्टषष्टिश्च कन्दराः॥९६॥ दशोत्तरं पुरशतं, प्रति- तीर्थादि ॥२२५॥
वैताव्यपर्वतम् । सप्तत्रिंशच्छतान्येवं, चत्वारिंशानि तान्यपि ॥९७॥ द्वात्रिंशच्च विदेहस्था, भरतैरवते संग्रहः इति । विजयाः स्युश्चतुर्विंशश्चक्रिजेतव्यभूमयः ॥९८॥ चतुस्त्रिंशद्वाजधान्यो, द्वौ कुरुस्थौ महाद्रुमौ । अस्यान्तिकेऽन्तरदीपाः, षट्पञ्चाशच वार्द्धिगाः ॥९९॥ एवं च संग्रहद्वारा, यदुक्तमप्यनूदितम् । सुखावबोघोद्यतानां, तदस्माकं न दोषकृत् ॥ २०० ॥ जिनैश्चक्रिभिः सीरिभिः शाहिभिश्च, चतुर्भिश्चतुर्भिर्जघन्येन युक्तः। सनाथस्तथोत्कर्षतस्तीर्थनाथैश्चतुस्त्रिंशताऽयं भवेद् द्वीपराजः ॥१॥ (भुजङ्गप्रयातं) चक्रवर्तिबलदेवकेशवैस्त्रिंशता परिचितः प्रकर्षतः। भारतैरवतयोईयं तथा, ते परे खलु महाविदेहगाः॥२॥ (रथोद्धता) जम्बूद्वीपे स्युनिधीनां शतानि, षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशत्ते चक्रिभोग्या जघन्यादुत्कर्षण द्वेशते सप्ततिश्च ॥३॥ (शालिनी) चक्री गङ्गाद्यापगानां मुखस्थानेतानात्ताशेषषखण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात्साधिष्ठातृनात्मसान्निर्मिमीते॥४॥(शालिनी) पञ्चाक्षरत्नद्विशती दशाधिकोत्कर्षेण भोग्याऽत्र च चक्रवर्तिनाम् । जघन्यतोऽष्टाभ्यधिकैव विंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ॥५॥ (इन्द्रवंशा) द्वौ चन्द्रौ। द्वौ दिनेन्द्राविह परिलसतो दीपको सद्मनीव, षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमाविष्करोति । षट्- ॥२२५॥ पञ्चाशच ऋक्षाण्यनिलपथपृथुन्निन्द्रचन्द्रोदयान्तर्मुक्ताश्रेण्याः श्रयन्ति नियमतिविततश्रीभरैर्विश्रुतानि ॥६॥
२५
२७
Jain Educati
o
nal
For Private Personel Use Only
O
pinelibrary.org
INI