________________
कान्ता, नयोऽमूर्दक्षिणामुखाः ॥ ८१ ॥ उद्ग्याता रक्तवती, रक्ता च रूप्यकूलिका । नारीकान्ता रोहितांशा, शीतोदा हरिकान्तिका ॥ ८२ ॥ सिन्धुं विना याः सरितो, दक्षिणां दिशमागताः । ताः पूर्वाब्धिं गामिन्यः, सिन्धुस्तु पश्चिमान्धिगा ॥ ८३ ॥ उद्ग्याताश्च या नद्यो, विना रक्तामहानदीम् । ताः पश्चिमान्धिगामिन्यो, रक्ता पूर्वाब्धिगामिनी ॥ ८४ ॥ खकीय हदविस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा, नदीनां मुखविस्तृतिः ॥ ८५ ॥ उत्तराभिमुखीनां तु खकीयहूदविस्तृतौ । चत्वारिंशद्विभक्तायां, यल्लब्धं तन्मिता मताः ॥ ८६ ॥ व्यवस्थेयं दक्षिणस्यां सरितां मन्दराचलात् । उदग्याम्योत्तरदिशाभिमुखीनां विपर्ययात् ॥ ८७ ॥ सर्वासां मुखविस्तारे, दशघ्ने प्रान्तविस्तृतिः । व्यासपञ्चाशत्तमांशः, सर्वत्रोद्वेध आहितः ॥ ८८ ॥ मुखपर्यन्तविस्तारविश्लेषे गतयोजनैः । गुणिते पञ्चचत्वारिंशत्सहस्रविभाजिते ॥ ८९ ॥ लब्धं यत्तदुभयतो, व्यासवृद्धिरभीप्सिते । योजनादौ गते सर्वाखपि तस्यार्द्धमेकतः ॥९०॥ चतुःषष्टिर्विजयेषु, सप्तवर्ष्या चतुर्दश । द्वादशान्तर्नदीनां च कुण्डानां नवतिस्त्वियम् ॥ ९१ ॥ द्विद्विप्रप्रमाणानि, कुण्डानि जिह्निकादिवत् । तुल्यान्यन्तर्निम्नगानां मिथो विजयगानि च ॥ ९२ ॥ प्रागुक्ताः पर्वताः कूटाः कुण्डानि च महापगाः । सर्वे वृता वेदिकया, वनाढ्यो भयपार्श्वया ॥ ९३ ॥ वेदिकावनखण्डानां, सर्वत्राप्यविशेषितम् । स्वरूपं जगतीस्थायिवेदिकावनखण्डवत् ॥ ९४ ॥
१ भरतादिषु गङ्गादिवत् महाविदेहेषु शीताशीतोदाभावात् सप्तवर्ष्या इति चतुष्षष्टिः विजयेषु तु गङ्गायाः ।
Jain Educationational
For Private & Personal Use Only
१३
Jainelibrary.org