________________
परिवारिताः॥७१॥ शीताशीतोदयोनद्योः प्रत्येकं च परिच्छदः । पञ्च लक्षाः सहस्राणि, द्वात्रिंशत्परिकीर्तितः॥७२॥ श्लोकक्रमेण सरितामिह श्लोकचतुष्टये । द्विगुणं जिटिकामानविस्तारोद्विद्धतादिकम् ॥ ७३ ॥ एकश्लोकोदितानां तु, सर्व तुल्यं परस्परम् । गङ्गासिन्धुरक्तवतीरक्तानां तुल्यता यथा ॥ ७४॥ दश लक्षाश्चतुःषष्टिः, सहस्राणि विदेहगा नद्योऽपाच्यां लक्षमेकं, षण्णवतिसहस्रयक ॥७॥ उदीच्यामपि तावन्त्य, एवं च सर्वसंख्यया । षट्पञ्चाशत्सहस्राख्या, नदीलक्षाश्चतुर्दश ॥७६॥ जम्बूद्वीपोऽभितो रुद्धः, खविरुद्धेन वार्द्धिना।। खमोक्षायेव दत्तेऽस्मै, कनी: शैवलिनीरिमाः॥७॥ स्थापना । चतुःषष्टिविजयगा, महानद्यश्चतुर्दश । अन्तनद्यो द्वादशातिरिच्यन्ते नवतिस्त्वियम् ॥ ७८॥ तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे-"अडसयरि महाणइओ बारस अंतरणईओं सेसाओ। परिअरणईओं चउदस लक्खा छप्पण्णसहसा य ॥१॥" श्रीमलयगिरयस्तु प्रवेशे च सर्वसंख्यया आत्मना सह चतुर्दशभिनंदीसहस्रः समन्विता भवन्तीति क्षेत्रसमासवृत्तौ कच्छविजयगतसिन्धुनदी वर्णयन्तो महानदीनां न पृथग्गणनेति सूचयांचक्रः, तथापि द्वादशान्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतगम्यमिति ज्ञेयं । तथापि पूर्वाचार्यानुरोधात् संख्या तथोदिता । नात्र पर्यनुयोगाही, वयं प्राच्यपथानुगाः॥७९॥ केचित्तु 'गाहावइमहानई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणणं सीयं महानई समप्पेई' इत्यादिजम्बूद्वीपप्रज्ञप्तिवचनात्, तथा"नद्यो विजयच्छेदिन्योरोहितावत्कुण्डाः खनामसमदेवीवासा अष्टाविंशतिनदीसहस्रा
Jain Educ
a
tional
For Private & Personel Use Only
W
ww.jainelibrary.org