SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १९ सर्गे ॥ २२२ ॥ Jain Education एवं च जम्बूद्वीपेऽस्मिन्, सप्तक्षेत्री विराजते । मध्ये महाविदेहाख्यमपागुदक त्र्यं त्रयम् ॥ २३ ॥ भरतैरावते तत्र, तुल्यरूपे निरूपिते । समखरूपे हैरण्यवत हैमवते अपि ॥ २४ ॥ रम्यकाख्यहरिवर्षे, उभे तुलाधृते इव । पूर्वापर विदेहानामप्येवं तुल्यता मता ॥ २५ ॥ देवोत्तरकुरूणामध्येव तु । विना भरतैरवत विदेहानपराः पुनः ॥ २६ ॥ अकर्मभूमयः षट् स्युः, कृष्यादिकर्मवर्जिताः । तिस्रो भरतेरवतविदेहाः कर्मभूमयः ॥ २७ ॥ तथा चात्र वर्षधरपर्वताः षद् प्रकीर्त्तिताः । विदेहेभ्यो दक्षिणस्यामुदीच्यां च त्रयं त्रयम् ॥ २८ ॥ हिमवच्छिखरी चैकादशकूटौ मिथः समौ । रुक्मिमहाहिमवतावष्टकूष्टौ तथैव च ॥ २९ ॥ नीलवन्निषधौ तुल्यौ, नवकूटौ परस्परम् । मेरुर्निरूपमः सोऽपि, नवकूटोपशोभितः ॥ ३० ॥ भरतैरावतक्षेत्रद्वात्रिंशद्विजयोद्भवाः । वैताख्याः स्युश्चतुस्त्रिंशत्प्रत्येकमेकभावतः ॥ ३१ ॥ सर्वेऽप्येते रूयवर्णा, नवकूटोपशोभिताः । दशोत्तरशतद्रङ्गाभियोग्यालिद्वयान्विताः ॥ ३२ ॥ चत्वारो वृत्तवैताढ्याः, समरूपाः परस्परम् । हरिवर्ष हैमवत हैरण्यवतरम्यके ॥ ३३ ॥ देवोत्तरकुरुथेषु, हदेषु दशसु ध्रुवम् । प्राक् प्रत्यक् च दश दश, काञ्चनाचलभावतः ॥ ३४ ॥ द्वे शते काञ्चननगाः, परस्परानुकारिणः । स्थिता भोक्तुं चतसृभिः, पङ्क्तिभिर्वाधवा इव ॥ ३५ ॥ गजदन्तौ सौमनसगन्धमादनसंज्ञितौ । रूप्यपीतरत्नमयौ, सप्तकूटोपशोभितौ ॥ ३६ ॥ विद्युत्प्रभ माल्यवन्तौ वैडूर्यतपनीयजौ । नवकूटाञ्चितौ तुल्या, इत्याकृत्या नगा अमी ॥ ३७ ॥ चतुःकूटाः षोडशापि, वक्षस्काराद्रयः समाः । विचित्रचित्रयमकाः, समरूपाः परस्परम् ॥ ३८ ॥ द्विशत्येकोनसप्तत्याधि For Private & Personal Use Only जम्बूद्वीपे क्षेत्रादि २० २५ ॥ २२२ ॥ २८ lainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy