SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शापेक्षया येषा, दक्षिणोदग्व्यवस्थितिः । सूर्याशापेक्षया त्वस्य, याम्याई वार्द्धिसन्निधौ ॥ ८॥ उदीच्या नगासन्नं, व्यवहारस्त्वयं पुनः । क्षेत्राशापेक्षया सर्वो, न तापदिगपेक्षया ॥९॥ उदीच्या मस्य याम्यभरतार्द्धन सन्निभम् । तद्वजीवेषुचापानि, बाहाऽत्रापि न संभवेत् ॥ १०॥ इतः प्रभृति याम्या दिषु सर्व विवईते । आविदेहार्द्धमिष्वासजीवाबाहाशरादिकम् ॥ ११॥ वैताव्यस्याप्यत्र तत, उत्तरस्यां किलाल्पकः ।। आयामो दक्षिणस्यां च, वर्द्धमानः क्रमान्महान् ॥१२॥ याम्यविद्याधरश्रेण्यां, विद्याधरपुराण्यतः। षष्टिर्भ-13 वन्स्युदीच्यायां, श्रेण्यां पश्चाशदेव च ॥१३॥ शेषं सर्वमाभियोग्यश्रेणिवेदीवनादिकम् । ज्ञेयं भरतवैताढ्यो|पममुक्तानुसारतः॥१४॥ कूटान्येकादशात्रापि, तन्नामानि तथा क्रमात् । किंतु नानि विशेषोऽस्ति, द्विती. यस्याष्टमस्य च ॥ १५॥ दक्षिणैरवताओँख्य, दैतीयीकं भवेदिह । उत्तरैरावता ख्यं, भवेच्च कूटमष्टमम् ॥ १६॥ रक्तारक्तवतीश्रोतखिनीभ्यां तस्थुषाऽन्तरे । वैताव्येन च षट्खण्डमिदमैरावतं कृतम् ॥ १७॥ तत्र च-उत्तरार्द्धमध्यखण्डे, उदीच्यलवणोदधेः। दक्षिणस्यामुदीच्यां च, वैताठ्याभिधभूधरात् ॥१८॥ चतु शाधिकशतं, योजनानां कलास्तथा । एकादशातिक्रम्याधिवैताख्याभ्यामिहान्तरे ॥ १९॥ नगरी स्यादयो ध्याख्या, नवयोजनविस्तृता । द्वादशयोजनायामाऽलङ्कृतोत्तमपूरुषैः ॥२०॥ शेषाः पश्चापि खण्डाः स्युरISI नार्या धर्मवर्जिताः । अत्रापि चार्यदेशानामध्यर्दा पञ्चविंशतिः ॥ २१ ॥ एतेष्वेव हि देशेषु, जिनचयर्द्ध चक्रिणाम् । स्यादुत्तमनृणां जन्म, प्रायो धर्मव्यवस्थितिः॥२२॥ Meeeeeeeटयर JainEducation inA M For Private Personal Use Only 313nelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy