SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दरः। अस्मिंश्च मूलकमलमेकयोजनसंमितम् ॥ ७७ ॥ तदा प्रमाणानि, शेषाब्जवलयानि षट् । लक्ष्मीदेवी वसत्यत्र, स्थित्या श्रीदेवतेव सा ।। ७८॥ हिमवद्भिरिवत्सर्व, मानमत्रापि चिन्त्यताम् । ज्याबाहाधनुरादीनां, IS केवलं दिग्विपर्ययः॥ ७९ ॥ नद्यस्तिस्रो इदादमान्निर्गतास्त्रिभिरध्वभिः । नदी सुवर्णकूलाख्या, रक्ता रक्तव तीति च ॥ ८०॥ दक्षिणेनाध्वना तत्र, निर्गत्य दक्षिणामुखी । सुवर्णकूला पतति, कुण्डे खसमनामनि ॥८१॥ ततो निर्गत्य हैरण्यवतोत्तरार्द्धभेदिनी। योजनार्द्धन दूरस्था, विकटापातिभूधरात् ॥ ८२॥ प्राक् परावर्त्य | हैरण्यवतपूर्वार्द्धमादितः। सूत्रधारस्येव रज्जुर्दिधा विदधती क्रमात् ॥ ८३ ॥ अष्टाविंशत्या सहस्रनदीभिः परिपूरिता । गृहिणीव स्वामिगेहे, विशति प्राच्यवारिधौ ॥ ८४॥ अस्मादेव हृदात्माच्यतोरणेन विनिर्गता। रक्तानदी पूर्वदिशि, प्रवृत्ता पर्वतोपरि ॥ ८५ ॥ योजनानां पञ्चशतीमतिक्रम्य ततः परम् । रक्तावर्तनकूटस्याधस्तादुत्तरतो भवेत् ॥८६॥ त्रयोविंशां पञ्चशती, योजनानां कलात्रयम् । साई गत्वाऽधिकमुदशिखरिश्माधरोपरि ॥ ८७॥ वनजिकियोत्तीर्य, कुण्डे रक्ताप्रपातके । शतयोजनप्रपाता, भुजङ्गीवाविशहिले ॥८८॥ उदीच्यतोरणेनास्माद्विनिर्गत्योत्तरामुखी । नदीसप्तसहस्राठ्या, वैतादयगिरिसीमया ॥ ८९ ॥ दाः खण्डप्रपातायाः, प्राच्यां वैताख्यभूधरम् । भित्त्वोदीच्यैः सप्तनदीसहस्रराश्रिताऽध्वनि ॥९०॥ सहस्रः सरितामेवं, चतुर्दशभिराश्रिता । विभिद्य जगतीं पूर्वार्णवेऽसौ विशति द्रुतम् ॥ ९१ ॥ पश्चिमेन तोरणेन, इदादस्माद्विनिर्गता । रक्तावती पश्चिमायां, प्रवृत्ता पर्वतोपरि ॥९२॥ अतिक्रम्य पञ्चशती, निजावर्तनकूटतः। पर्वतो Jain Educat onal For Private Personel Use Only V w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy